________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
अलङ्कार महोदधौ
तत् किं कर्तव्यमित्याह -- काव्ये कविव्यापारे बद्धा दरैर्यत्नपरैर्भाव्यं भवितव्यं 'विद्वद्भिः' इति गम्यते । कथमजस्रम विश्रान्तम् । कीदृशैर्विद्वद्भिरपरिश्रमैः परिश्रमं विमुच्येत्यर्थः । तद्विधा हि वाचः काव्यव्यापृता एव साफल्यं भजन्तीति भावः ॥ ४ ॥
अथ किम्प्रयोजनं काव्यमित्याह -
अमन्दोद्गतिरानन्दस्त्रिवर्गश्च निरर्गलः । कीर्तिश्च कान्तातुल्यत्वेनोपदेशश्च तत्फलम् ॥ ५ ॥
तस्य काव्यस्य फलं प्रयोजनं यथौचित्यं कवेः सहृदयस्यै च किमित्याहसकलप्रयोजनतिलकभूता तत्कालमेव रसपीयूषपानप्रादुर्भूता कवलितवेद्यान्तरा परमब्रह्मास्त्रादसोदरा प्रीतिरानन्दः । सोऽप्यमन्दोद्द्वतिरूर्जस्वलोदयः । तथा निरर्गलः सातिशयो धर्मार्थकामरूपखिर्गः । यतो देवता - मुनिस्तुति - विशेषात् सर्वसुखसम्पत्तिहेतुर्धर्मः प्रादुर्भवत्येव । सरसकाव्यपरितोषितेभ्यः पृथिवीपतिप्रमुखेभ्योऽर्थोऽपि पुरस्सर एव । काव्यरसपरवशीभूताः कामिन्योऽपि कामं कामरसामृत निस्स्यन्दिन्यो भवन्तीति । तथा शरदिन्दुसुन्दरा कीर्तिश्च । कालिदासादीनां महाकवीनामद्य यावत् काव्यप्रकर्षादद्भुताः कीर्तयः । तथा कान्तासंमिं - ततयोपदेशश्च । काव्यमुद्रया हि शब्दार्थी गुणीकृत्य रसाविष्कारकारणं व्यापारमूरीकुर्वत्या प्रभुप्रायेभ्यः शब्दप्रधानेभ्यो वेदागमादिशास्त्रेभ्यश्च मित्रतुल्येभ्योऽर्थप्रधानेभ्यः पुराण - प्रकरणादिभ्यश्च किमप्यात्मनो वैलक्षण्यमुन्मीलयन्त्या कान्तयेव रसपारवश्याध्यारोपात् संमुखीकृत्य ' रामादिवद् 'वैर्त्तितव्यम्, न रावणादिवद्' इत्युपदेशः प्रदीयते । यदाह हृदयदर्पणकार :
“ शब्दप्राधान्यमाश्रित्य तत्र शास्त्रं पृथग् विदुः ।
अर्थे तत्वेन युक्ते तु वदन्त्याख्यानमेतयोः || २ ||
द्वयोर्गुणत्वे व्यापारप्राधान्ये काव्यगीर्भवेद । " इति ॥ ५ ॥
६ अ ०भ्योपिय० । ७ प १० प संमत । ११ अ
१ प परिश्रान्ति । २ अ. व्य कि० । ३ प ०पा० । ४ १ ०र्थरूप स्त्रि० । ५ प ० तिरूपाद् वि० ०पि कामर० । ८ व निस्यादिनो । ९ प. ०नांहि क०, अ. ०दीनां अद्य० । ०ल्येभ्यः पु० | १२ प. वर्त्तव्यं । १३ व ०न्यतत्र । १४ व. द्वयोव्य० ।
For Private And Personal Use Only