________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यस्य प्रयोजन-कारणस्वरूपभेदनिर्णयो नाम प्रथमस्तरङ्गः ।
अथ काव्यस्य कारणमाहकारणं प्रतिभैवास्य व्युत्पत्त्यभ्यासवासिता । बीजं नवाङ्कुरस्येव काश्यपी-जलसङ्गतम् ॥ ६ ॥
अस्य काव्यस्य प्रतिभैव नवनवोल्लेखप्रेजितः प्रज्ञाविशेष एव कारणं निमित्तम् । कथम्भूता प्रतिभेत्याह-व्युत्पत्तिः शास्त्रादिप्रागल्भ्यम्, अभ्यासः पुनः पुनः प्रवृत्तिस्ताभ्यां वासिता संस्कृता। किमिव ? बीजमिव । कस्य ? नवाङ्कास्य प्रथमाकुरस्य । बीजस्थ झुत्तरोत्तरानङ्कुरान् प्रत्यकारणत्वात् । किंविशिष्टम् ? काश्यपी-जलसङ्गतं पृथिवी-पाथासमागतम् । किमुक्तं भवति ? यथा बीजमेवाडरोत्पत्तिहेतुर्भुम्यम्भसी तु तदुपष्टम्भवीजके । तथा प्रतिभैव काव्यकामधेनुर्युत्पत्यभ्यासौ तु तामेवोपस्कुरुतस्तद्वारेणैवं काव्योपकारिणौ । विद्यमानयोरपि तयोनिःप्र(निष्प्रतिभस्य काव्योत्पत्त्यनुपलम्भादिति ॥ ६ ॥
_ अथ विशेषतः प्रतिभास्वरूपमाहजगञ्चेतश्चमत्कारि कविकर्मनिबन्धनम्। काचिदप्यात्मनः शक्तिः प्रतिभेत्यभिधीयते ॥७॥ काचिदप्यशक्या निर्वस्तुमात्मनः क्षेत्रज्ञस्य शक्तिः स्फूर्तिविशेषः प्रतिभेति नाम्नाऽभिधीयते व्यपदिश्यते 'बुधैः' इति शेषः । कीदृशी ? जगचेतश्चमत्कारि विश्वमनोविस्मयोत्पादि । न पुनस्तद्विपरीतम् । यल्लोकोत्तरं कविकर्म कविन्यापारः काव्यमित्यर्थः । यदुक्तम्
" प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता । तदनुप्राणनाजीवद्वर्णनानिपुणः कविः ॥ ३ ॥ तस्य कर्म स्मृतं काव्यम्"
इति । तस्य काव्यस्य निवन्धनं कारणम् । न खलु प्रतिभामन्तरेण काव्यमुन्मीलति। कथञ्चिदुन्मीलति चेत् तत् सर्वस्यापि हास्यपात्रता गच्छेदिति ॥ ७ ॥
१५. का०।२३. वना०।३ व. ०पाथः कि० । ४ अ..णैवोप० । ५५. .स्थ हास्यतां ।
For Private And Personal Use Only