SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ अथ शास्त्रारम्भे शास्त्रकारः सकलप्रत्यूहव्यूहव्यपोहाय शास्त्रस्य तत्प्रभावनिर्माप्यत्वात् समुचितामात्मनोऽभीष्टां च भगवतीं वाग्देवतां नमस्करोति शब्दब्रह्ममयीं वन्दे देवीमानन्दकन्दलीम् । चातूरूप्यनिभाद् यस्याः कोऽपि स्तम्बादिडम्बरः ॥ १॥ शब्दब्रह्ममयीं शब्दब्रह्मशरीरां देवीं दिव्यस्वरूपां वन्दे प्रणौमि । शब्द एव ब्रह्म विश्वव्यापी कश्चित् परमज्योतिर्विवर्तः सं प्रकृतो यस्यामिति मयटि शब्दब्रह्ममयी ताम् । समर्थविशेषणमाहात्म्याच विशेष्यप्रतीतिरिति 'वाग्देवता' गम्यते । तां च कीदृशीम् ? आनन्दकन्दलीमानन्दरूपाङ्कुरप्रादुर्भावस्य कन्दली लताविशेषस्ताम् । ‘परादिमूर्तिमत्या हि भारत्याः परमानन्दोद्गमः' इत्यागमः । अत्र देव्याः कन्दलीत्वरूपणादानन्दस्याङ्कुरत्वरूपणमित्येकदेशविवाः परम्परितं रूपकम् । यस्याः कोऽप्यनिर्वचनीयः स्तम्बादिडम्बरः स्तम्ब-पत्र-पुष्पादिरूपपरिस्पन्दो 'वर्त्तते' इति क्रियाध्याहारः । कस्माचातूरूप्यनिभात् । भगवती भारती हि परा १ पश्यन्ती २ वैखरी ३ मध्यमा ४ इत्यभिधानाजात्यादिरूपत्वाद् वा चतूरूषा तस्या भावश्चातूरूप्यं तन्निभात् तच्छलादित्यर्थः । यथा हि स्तम्बादिशालिनी लता पुष्पादिप्राप्तिहेतुत्वाजनानामानन्दयित्री तापादिव्यपगमंचं करोति; तथा भगवत्यपि चातूरूप्यवती विशेषप्रतिभोल्लासहेतुत्वाल्लोकानामानन्दायत्री दुरितादिविध्वंसं च सूत्रयतांति नमस्कायवेयमिति ॥ १ ॥ अथाभिधेयमाहवाच्य-वाचकवैचित्र्यरत्नसम्भारनिर्भरः। कीर्त्यते कृतिनां सोऽयमलङ्कारमहोदधिः ॥२॥ 'सोऽयं स इत्यनिर्वाच्यस्वरूपोऽयमित्यनुभूयमानोऽलङ्कारमहोदधिरलङ्काररूपामृतस्य महोदधिः सागर इत्यन्वर्थनामा ग्रन्थविशेषः कृतिनां कोविदानां कीय॑ते कथ्यते इति । कृतिनो हि शास्त्राणामन्तस्तत्वनिकषः । स च कीदृशः ? १ व. ०त्रपतनप्र० । २ प. शब्द एव । ३ व. देवख । ४ व. ०पीति क० । ५ व. स कृ०। ६ . ०रूपादा०। ७ व. स्वत । ८ व. पल०। ९ प. .भात् छ० । १० व. ११ प. माल्हाद० । १२ अ. सोऽयमित्य० । १३ व. काररूपा० । गर्म क। For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy