________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
4
मनश्वर वस्तुपाल - प्रशस्तिः (२)
स्ववंश्य मूर्त्तिभिः श्रीमनेमिनाथेन चान्वितः । मुखोद्घाटन कस्तम्मे वस्तुपालेन निर्ममे ॥ ९६ ॥ आशाराजस्य पितुः पितामहस्यापि सोमराजस्य । मूर्त्तियुगमत्र मन्त्री व्यधापयत् तुरंग पृष्ठस्थम् ॥ ९७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
द्वारे यत् किल दक्षिणामनुगतं यच्च प्रतीच्यां स्थितं यत् कौबेरदिगाश्रितं च सदनं श्रीनेमिनाथप्रभोः । कामं मण्डयति स्म तानि सचिवोत्तंसः स यैस्तोरणै
॥ ९९ ॥
दृष्टिस्तद्विभवं विभाव्य जगतो नान्यत्र विश्राम्यति ॥ ९८ ॥ गुरुः कुलेऽस्य नागेन्द्रगच्छव्योमार्यमाऽभवत् । श्रीमहेन्द्रप्रभः श्रीमान् शान्तिसूरिस्ततः श्रुतः आनन्दामरसूरी तदीयगच्छाब्धिकौस्तुभप्रतिमौ । तदनु हरिभद्रवरिः शमरत्नमहोदधिः समभूत् ॥ १०० ॥ तत्पदे विजय सेन सूरयः पूरयन्ति कृतिनां मनोरथान् । वस्तुपाल - जिनबिम्बपद्धतिर्जुम्भते जगति यत्प्रतिष्ठिता ॥ १०१ ॥ अत्यद्भुतैः कत्यतिरजयोऽसाध्यद् धर्ममतुल्यकर्म । श्रीवस्तुपालः सचिवावतंसः प्रकल्पतां कल्पशतायुरेषः ॥ १०२ ॥ यो विद्वद्भिरप्येवं स्तूयते -
त्यागाराधिनि राधेयेऽप्येक कर्णैव भूरभूत् । उदिते वस्तुपाले तु द्विर्णा वर्ण्यतेऽधुना ॥ १०३ ॥
जज्ञे हर्षपुरीय गच्छतिलकः श्रीमन्मुनीन्दुप्रभुदेवानन्द गुरुस्ततस्तदपर: सूरिश्व देवप्रभः । तच्छ्प्यैिर्न र चन्द्रसूरिगुरुभिर्दतप्रतिष्ठोदय
४११
For Private And Personal Use Only
स्तामेतामतनोत् प्रशस्तिमतुलां सूरिर्नरेन्द्रप्रभः ॥ १०४ ॥
इति मन्त्रीश्वरवस्तुपालप्रशस्तिः श्रीनरेन्द्रप्रभसूरिविरचिता ।