SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १ ॥ परिशिष्टम् [५] मलधारिश्रीनरेन्द्रप्रभसूरिनिर्मिता वस्तुपालप्रशस्तिः (२) स मङ्गलं वो वृषभध्वजः क्रियाजटावलीसंवलितांसमण्डलः । यदोयमङ्ग किल सर्वमङ्गलाश्रितं प्रमोदाय न कस्य जायते ? समूलमुन्मूलयितुं सुरद्रुहः सन्ध्यासमाधौ चुलुकीकृतेऽम्भसि । दूरंभ( स्वयम्भु )वा यः [स]सृजे भटाग्रणी: समग्रशक्तिः स चुलुक्य [इत्यभूत्॥२॥ तदन्वयाम्भोधिविधुर्विधूतविरोधिमूलोऽजनि मूलराजः । न क्वापि दोषोक्तिरभूत् तु यस्य यशःप्रकाशैर्विशदेऽपि विश्वे ॥ ३ ॥ य( त )स्यात्मभूः समभवद् भुजदण्डचण्डश्चामुण्डराज इति राजकमौलिरत्नम् । भूवल्लभस्तदनु वल्लभराजदेवस्तन्नन्दनो मुदमुदश्चितवान् प्रजानाम् तस्यानुनन्मा समभूत् परस्त्रीसुदुर्लभो दुर्लभराजदेवः । बभूव भीमो रणभूमिभीमस्ततोऽपि सीमा जगतीपतीनाम् तदात्मनः संयति लब्धवर्णः कर्णोऽभवत् कर्णसमप्रतापः । श्रीसङ्गमाद् वीररसोऽपि यस्य बभार शृङ्गारमयत्वमेव सूनुस्तदीयोऽजनि वैरिवीरदिपेन्द्रसिंहो जयसिंहदेवः । नवेन्दु-कुन्द तिभिर्धरित्री यः कीर्तिमुक्ताभिरलञ्चकार अयं हि राकासु विलासकौतुकी रिपुस्तदस्यास्तु विपर्ययोऽधुना । इतीब यो मालवमेदिनीश्वरं चकार काराविनिवेशदुःस्थितम् ततोऽभवत् कीर्तिलतालवाल; कुमारपालः क्षितिपालभास्वान् । यस्य प्रतापः शिशिरेऽप्यरीणां स्वेदोदबिन्दूनधिकांश्चकार उदग्रतेनासुकतैकमन्दिरं धराधरेन्द्रः स गिरामगोचरः । व्यधत्त य: शत्रुकलत्रमण्डली महीमशेषां च विहारभूषणाम् ॥ ६ ॥ ॥ ७ ॥ ॥ ८ ॥ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy