SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तुपाल-प्रशस्तिः (१) उद्भूतानि रजांसि मांसलतमान्याकाशमाशिश्रियु स्तेषामेव मुखावनौ पुनरहो ! मालिन्यमुन्मीलितम् ॥ २० ॥ काले यत्खड्गदण्डे रिपुकरटिशिरःस्यन्दसिन्दूरपूरैः ___सन्ध्याबन्धं दधाने विरचितमुचितं मौक्तिकैस्तारकत्वम् । शोतज्योति:प्रकाशं तदनु समुदितं तद्यशो येन तेने शश्वविस्तारि राकारजनिमहमहो ! विश्वतो विश्वमेतत् ॥ २१ ॥ चण्डांशोरपि चण्डतामगमयदू यस्य प्रतापोदयः शीतांशोरपि शीत(ति)मानमभजद् यस्य प्रसादोत्सवः । ब्रह्मास्वादनतोऽपि तोषमपुषद् यस्यावदातं यश- . स्तल्लोकोत्तरमस्य कस्य वचसां पात्रं चरित्राद्भुतम् ? ॥ २२ ॥ यस्मिन् धर्म पुरस्कृत्य विपद्भ्यो रक्षति क्षितिम् । जने जन्यमजन्यं च द्वयमप्राप्यतां गतम् ॥२३॥ तस्मिन् काञ्चनकोटिभिः प्रणयिनां दारिद्यमुद्रागुहि. व्यक्तं काञ्चनशैलखण्डनविधावाखण्डल: शङ्कितः । भ्राम्यत्येव निदेशतोऽस्य तदयं राजा ससूरः सदा नक्षत्रैः परिवारितश्च परितोऽप्यद्याप्यमुं रक्षति ॥ २४ ॥ नभस्ये निर्दृष्टाः शरदि नहि वर्षन्ति जलदाः फलबारात्तैन खलु फलवृक्षाश्च फलिनः । प्रदुग्धा वा गावः पुनरपि न दुग्धानि ददते .. कदाऽप्येतस्योच्चैन तु वितरणे श्राम्यति मतिः ॥ २५ ॥ : दीपः स्फूर्नति सज्जकज्जलमलः स्नेहं मुहुः संहर निन्दुमण्डलवृत्तखण्डनपरः प्रवेष्टि मित्रोदयम् । सूरः क्रूरकरः परस्य सहते तेजो न तेजस्विन स्तत् केन प्रतिमं ब्रुवीमहि महः श्रीवस्तुपालाभिधम् ? ॥ २६ ॥ इति मलधारिश्रीनरचन्द्रसूरिकृता श्रीवस्तुपालप्रशस्तिः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy