________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५४
भावदेवाचार्यविरचितः। उल्लेखोऽयं यदेकस्याने कधा प्रतिभासनम् । सूरो युधि नये सोमो बुधः शास्त्रे विभो ! भवान् ।। ४५ ।। विशेषोक्तिस्तु कार्यस्याकथनं यत्र सत्यपि । कारणोघे यथा कामा कामं दग्धोऽपि शक्तिमान् ॥ ४६ ॥ प्रतीपमुपमायौं यदुपमेयप्रकृष्टता । खला यदि विषं व्यर्थ सन्तश्चेदमृतेन किम् ॥ ४७॥ संसृष्टिर्यत्रालङ्कारभेदाभेदेन भूरिशः । लिम्पतीव तमोऽङ्गानि खलसेवेव दृग् qथों ॥ ४८ ॥ भाविकं यत् स्फुटा(टी)कारो भावना(वानां) भूत-भाविनाम् ।
अच्छंत्रोऽप्येष सच्छरिव संलक्ष्यते बटः ॥४९ ॥ इतिश्रीभावदेवाचार्यविरचितेऽलङ्कारसारेऽर्थालङ्कारद्योतनो नाम षष्ठोऽध्यायः।।६।।
अथ सप्तमोऽध्यायः । चतुरन्तैः पाश्चाली सप्तान्तः समसितैः पदैलाटी । अष्टायेगौंडी पुनरसमस्तपदा तु वैदी ॥ १ ॥ इति रीतयश्चतस्रः काव्ये श्लिष्टाक्षरा तु वैदी । गौती कोमलबन्धा क्रमेण चासामुदाहृतयः ॥ २ ।। वादयति विततवाचं भैरतोदिततारेचारुपाञ्चाली। नृत्यति कृतजननयनामृतरसमरनिर्भरं लाटी ॥ ३ ॥ गायति मदकलपिककुलगलविमलालापकोमलं गौडी। भक्त्या जिनस्य पुरतः स्तुतिं विधत्ते तु वैदी ॥ ४ ॥
१ का. नरे । २ का. विदुर्भ० । ३ प. अ. ०णौधैर्य० । ४ प. अ. ०मानानां । ५ का. व्यथा । ६ प. अ. अप० । ७ का. वृतः, अ. प. वतः। ८ प. इति० अर्वा० । प. अ. समासः। १. अ. प. श्लष्टा० । ११ प. भिरनो० । १२ प. तालरूपपं० । १३ म. प. च।
For Private And Personal Use Only