SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यालङ्कारसारसमहः । भ्रान्तिमुक्ताभ्रमं ज्योत्स्ना गुञ्जासु जनयत्यसौ । स्मृतिस्तु शशिनं दृष्ट्वा यूना तस्याः स्मृतं मुखम् ।। ३३ ॥ सन्देहः किमिदं वक्त्रं ? किं वेन्दुरिति संशयात् । अपड्नुतिरयं नेन्दुरिमा अङ्गारवृष्टयः ॥ ३४ ॥ विषमो दैवकं यस्मिन्ननौचित्यं च वर्ण्यते । क्व तपः कर्कशं क्वेदं सुकुमारं वपुस्तव ! ॥ ३५ ॥ दवमीत्या वनं हित्वा लीलासरसि पद्मिनी । तत्र दग्धा हिमे नालेऽसौ (साs)वश्यं भावि देवकम् ।। ३६ ।। किं सारं धर्म इत्यादि स्यात् प्रश्नोत्तरमुत्तरम् । उदात्तं धीरवृत्तं यत् कर्णो वाप्यदान्मुदा ॥ ३७ ॥ सारः सारं धनं यस्य दानं तत्र प्रियं वचः। अन्योन्यं च यथा भाति गुणैरात्माऽऽत्मना गुणाः ॥ ३८ ॥ समुच्चयो वपुर्नग्रं मिता वाग् धीस्तता सताम् । कारणाली श्रिया धमाद् धी न्यायान्नयः श्रुतात् ॥ ३९ ॥ आशीराशीर्वच : ख्यातं चिरं जीवन्तु सजनाः। यथासङ्ख्यं यति ही राजते क्षमया श्रिया ॥ ४० ॥ तद्गुणो यमुनौधेऽपि श्वेता एव सितच्छदाः। गृहीत-मुक्त-रीत्युक्तः पदेरेकावली भवेत् ॥ ४१ ॥ रसवत् तु रसोत्कर्षात् विश्वे(श्व) पश्यामि तन्मुखम् । प्रेयोऽतिहर्षभावोक्तिस्त्वमेव मम जीवितम् ॥ ४२ ॥ परिसङ्ख्या तु वस्तूक्तिरेकनान्यत्र वर्जनात् । पुरेऽस्मिन् कुमणो त्रासः तापः स्वर्ण जने न तु ॥ ४३ ।। सूक्ष्मः परस्मिन् सङ्केतज्ञापनायङ्गितं तु यत् । - इष्टं दृष्ट्वा जनं छेका लीलापनं न्यमीलयत् ॥ ४४ ।। भ. प. रियं । २ का. नलेनालो सा । ३ अ. प. रं धीरवत्त्वं । प भस्म, भ. तस्य । ५ का. तु । ६ अ. श्रितात् । . For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy