________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भावदेवाचार्यविरचितः
पुनरुक्तवदाभासः पुनरयमिह पुनरुक्तसदृशता यत्र । यस्य सदा न त्यागो न तदन्तः सुमनसो विबुधाः ॥ १३ ॥
इति श्रीभावदेवाचार्यविरचितेऽलङ्कारसारे शब्दालङ्कारनिर्णयो नाम पञ्चमोऽध्यायः ।। ५ ।।
अथ षष्ठोऽध्यायः। उपमोत्प्रेक्षा-रूपक-जाति-व्यतिरेक-दीपकाक्षेपाः । अप्रस्तुतप्रशंसा विभावना-ऽर्थान्तरन्यासः ॥ १ ॥ व्याजस्तुतिः समाधिः परिवृत्तिस्तुन्ययोगिता श्लेषः । चक्र-व्याज-विना-सह-पर्यायस्तदुक्तयः पश्च ।। २ ॥ हेतु-विरोधासङ्गति-दृष्टान्त-समासमतिशयात्युक्ती । भ्रान्ति-स्मृति-सन्देहापनुर्विषम-दैवकोत्तरोदात्ता ॥ ३ ॥ सारान्योन्य-समुच्चय-कारणमाला-ऽऽशिषो यथासङ्ख्यम् । तद्गुण एकावलिका रसवत् प्रेयश्च परिसङ्ख्या ॥४॥ सूक्ष्मोल्लेख-विशेष-प्रतीप-संसृष्टि-भाविक-प्रमुखाः । बहवोऽर्थालङ्काराः स्वभाव-वक्रोक्तिभेदाभ्याम् ॥ ५ ॥ कीर्तिता इत्यलङ्कारास्तेषां लक्षणमुच्यते । लक्ष्यं च केषुचित् सार्थात् केषु नाम्नैव लक्षणम् ॥ ६ ॥ साम्यमुपमा बहुविधा लुप्त-प्रकटेव वद् यथा नामि । शब्दैः साम्याथैरपि यथा शशीवास्याँ भाति मुखम् ।। ७ ।। अनन्वया शशीवेन्दुः प्रतीपो मुखवच्छशी ।
प्रतिवस्तूपमा चन्द्र ज्योत्स्ना हृया मुनो क्षमा ॥ ८॥ ...अन्योन्या तु शशीवास्यमस्या वदनवच्छशी । [षट्पदः ] . , का. • रुकाभा० । २ का. दंते । ३ अ. प. इति श० । ४ अ, चक्र० । ५ अ. प. स्मृतः । ६ का. हुतिर्विषमोत्तः । ७ का. वाच्यैः श• । ८ अ. प. स्य भा० ।
For Private And Personal Use Only