SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४८ भावदेवाचार्यविरचितः औदार्य तु विदग्धोक्तिः क्वार्थिनस्त्वयि दातरि ? । ओजोऽल्पवणः प्रौढोक्तिर्धर्मस्तेऽसौ जगजयी ।। ६ ।। कान्तिः सर्वजनस्येष्टं जन्म मेऽद्य त्वदीक्षणात् । समाधिरर्थमाहात्म्यं पद्मोन्मेषः प्रभोदयः ॥ ७ ॥ माधुयौँजः-प्रसादाख्यास्त्रय एव गुगाः परैः । ख्यातास्ते तन्मते शेषा एवेवान्तमर्वन्ति ते ॥ ८ ॥ शोभाऽभिमा(धा)न-हेतु-प्रतिषेध-निरुक्ति-युक्ति-कार्याख्यम् । सिद्धिश्च काव्य-नृपतेलेक्षणमिदमुत्तमं प्राहुः ॥९॥ शोभा दोषनिषेधात्मा यत्र त्वं स शुभः कलिः । अभिमा(धा)नस्तु वस्तूहश्चन्द्रश्चेत् तीव्रता कथम् १ ॥ १० ॥ हेतुस्त्यक्तान्यदेकोक्तिर्नेन्दुर्नार्को गुरुह्यसौ । प्रतिषेधो न युद्धेन त्वं ध्रुवाजयः परान् ॥ ११ ॥ निरुक्तं वीदृशैव तौ जाने दोषाकरो भवान् । युक्तिवैशिष्ट्यमन्दस्त्वं नवो यद् हेम वर्षसि ॥ १२ ॥ कार्य फलोक्तिः स्त्रीमानच्छेदायेन्दुरुदेत्यसौ । सिद्धिः ख्यातेषु तुल्याख्याऽब्धिर्जलस्त्वं चलैर्महान् ॥ १३ ॥ इति श्रीभावदेवाचार्यविरचितेऽलङ्कारसारे गुणप्रकाशनो नाम चतुर्थोऽध्यायः॥४॥ अथ पञ्चमोऽध्यायः। स्याद् वक्रोक्तिरनुप्रासो यमकं श्लेष इत्यपि । चित्रं पुनरुक्तवदामासः शब्देष्वलङ्कतिः ॥ १॥ वक्रोक्तिः श्लेष-काकूभ्यां श्लेषे केनेशी तव ? । निर्मिता दारुणा बुद्धिर्न सा दारुमयी क्वचित् ॥ २ ॥ .१ अ. प. अन्तं । २ का. दये । ३ अ. प. ०स्तै । ४ का. न्यतः । ५ अ. प. •स्तवस्तु हश्वे० । ६ अ. प. नियुः । ७ का. त्वादृशम॒तैजनो । ८ अ, प. इति गु० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy