SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यालङ्कारसारसङ्ग्रहः । अपुष्टो न विशिष्टो यः कष्टो दुःखावबोधकृत । व्याहतार्थ मिथो घाताद विश्वीयस्त्वं रिपूनहन् ॥ २० ॥ विद्यया च प्रसिद्धया च विरुद्धो द्विविधो यथा । प्रतापो वर्ण्यते श्वेतः केतकी हरमूर्धनि ॥ २१ ।। तथा सहचराचारविरुद्धोऽपि भवेद् यथा । ध्वाक्षाः सन्तश्च मन्यन्ते परस्यापि सुतं निजम् ॥ २२ ॥ शेष सुगममन्वर्थात् क्वचिद् दोषोऽपि होस्यतः। कवीनां समयात् श्लेषादुक्तो भवति सद्गुणः ॥ २३ ॥ इहोदाहरणस्यादौ ग्रन्थसक्षेपमात्रतः।। यथाशन्दोऽप्रयुक्तोऽपि योज्यः पूर्व-परात् पदात् ॥ २४ ॥ इति श्रीभावदेवाचार्यविरचितेऽलङ्कारसारे शब्दार्थदोषप्रकटनो नाम तृतीयोऽध्यायः ॥ ३ ॥ अथ चतुर्थोऽध्यायः। पूर्व हेयतया काव्ये दोषानाख्याय कांश्चन । अथादेयतया केचिद् वर्ण्यन्ते साम्प्रतं गुणाः ॥ १॥ श्लेषः प्रसादः समता माधुर्य सुकेमारता । अर्थव्यक्तिींदारत्वमोजः-कोन्ति-समाधयः ॥ २ ॥ इलेषः संश्लिष्टवर्णत्वं यथा श्रव्यं गुरोर्वचः । प्रसादः स्फुटरूढार्थो यशः कुन्देन्दुसोदरम् ॥ ३ ॥ समता समवर्णत्वं मुखं स्मितसितद्युति । माधुर्य श्रुति-हृत्प्रीति गिरस्ते दुग्धबन्धवः ॥ ४ ॥ सौकुंमार्य तु लालित्यं नीरसोऽयं पुनस्तरुः । अर्थव्यक्तिः समग्रार्थो हरिः पातु श्रियः पतिः ॥ ५॥ ...१ अ. प. रिपु० । २ अ. प. ह्यास्य० । ३ अ. प. इति० श०। ४ अ. प. कश्चित् . का. तस्मिन् । ५ का.. षस्तु । ६ का. रस्त०। ७ का. प्रोऽ० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy