________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४४
अलङ्कारसारः।
गङ्गायां घोष इत्यत्र गङ्गावाच्यमथो तटम् । लक्ष्यं व्यङ्ग्यं पुनः शैत्य-पावनत्वाद्ययं क्रमः ॥ ३ ॥ मुख्यार्थनिष्ठो यः शब्दव्यापारः साऽभिधा मता। अभिधैव ह्यमुख्यार्थाऽन्यार्थगा लक्षणा भवेत् ।। ४ ॥ व्यञ्जनं व्यज्यते येनानुक्तं व्यङ्ग्यं पुनर्द्विधा । गौणं मुख्यं च प्राक् काक्वाक्षिप्ताद्यमितरद् ध्वनि ॥ ५ ॥ रोमाश्चाद्यङ्किताङ्गित्वं वापी स्नातुं गता सैखि !। न तु तस्याधमस्यान्ते रतं तेऽभूदिति घनिः ॥ ६॥ अघटनेतोऽनुपयोगान्मुख्यऽर्थे बाधिते तदासच्या । योऽन्यार्थागमो रूढेः प्रयोजनाद् वेति लक्षणा सोक्ता ॥ ७॥ गङ्गायां घोषस्यानुपपच्याऽऽसत्तितस्तटावगमः । यद् भवति लक्षणा सा प्रयोजनं पावनत्वादि ॥ ८ ॥ कुशल स्पानुपपत्त्या कर्मणि कुशलस्य दक्ष इति रूढिः । व्यङ्ग्येन सा तु रहिता प्रयोजनं व्यङ्ग्यरहितं तु ॥ ९ ॥ रामोऽस्मीत्यत्राख्यानुपयोगात् लक्ष्यते हि तदवस्था । निर्वेदाधसमानं प्रयोजनं व्यङ्ग्यमेतत् तु ॥ १० ॥ षड्भेदा लक्षणा प्रोक्ता शुद्धौ भेदौ तदादिमौ । वथोपचारमिश्रास्तु चत्वारस्तनिरूप्यते ।। ११ ।। कुन्ता विशन्तीत्यादौ यः पराक्षेपः स्वसिद्धये । परोपादानतः साऽऽद्या स्मृतोपादानलक्षणा ।। १२ ॥ गङ्गायां घोष इत्यादौ परार्थ स्वसमर्पणात् । लक्षणाल्लक्षणा या स्यादसौ लक्षणलक्षणा ।। १३ ॥ गुणतो गुणसारोपा गौर्वाहीको यथोच्यते । गोरेवायमितीयं तु गौणसाध्यवसानिका ॥ १४ ॥"
१.का. क्रमात् । २. का. इता। ३. अ. प. सखे । ४. का. ०लानानु० ।५ अ. प. ०भूदक्ष । ६. का..त्व०। ७. अ. प. दिस. 1८. अ. प. ०तः वि०। ९. का. ०स्य सिः । १२. अ. प. तु । ११ का, इति ।
For Private And Personal Use Only