SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३३८ www.kobatirth.org अलङ्कारमहोदधौ अथ समासोक्तिमाह Acharya Shri Kailassagarsuri Gyanmandir तुल्यैर्विशेषणैरेव प्रतीतपथचुम्बिनः । प्रयोगश्चोपमानस्य समासो [क्तौ ] न साम्प्रतम् ॥९७॥ चकारः पूर्वसमुच्चये । विशेषणसाम्यादेवोपमानस्य प्रतीतौ तत्प्रयोगः समासोक्तौ न युक्ततां चुम्बति, अधिकप्रसङ्गाद् | यथा " स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया । अनुमानपरिग्रहया स्थितं रुचिरया चिरयायिदिन श्रिया ॥ ९८९ ॥ अत्र यथा तिग्मरुचः ककुभां च विशेषणसाम्यादेव नायकत्वप्रतीतिस्तथा निदाघदिन श्रियोऽपि प्रतिनायकप्रतीतिरस्त्येवेति दयिताशब्दप्रयोगो न युक्तः । एवमप्रस्तुतप्रशंसामुपमेयप्रयोगोऽपि नौचितीं चुम्बति । यथा“ आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते 44 मध्ये वायुरिवाविशंस्तृणमपी (पि) धत्ते मणीनां धुरम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक् सामान्यमचेतनं प्रभुमिवानामृष्टतच्चान्तरम् ॥ ९८२ ॥ अप्रभुमिवेत्युपमेयं विशेषणसाम्यादेव गम्यते । प्रयोगस्त्वस्य नोचितः ||१७|| अर्थालङ्कारसमर्थनार्थमाह इत्यलङ्कारवैचित्र्यमुक्तमर्थाश्रये कियत् । अनन्ता हि कवीन्द्राणां भङ्गीभणितयोऽद्भुताः ॥ ९८ ॥ इत्यमुना पूर्वोक्तप्रकारेणार्थाश्रयणं वाच्यनिष्ठं कियदल्पमलङ्कारवैचित्र्यमुक्तमभिहितम्; सामस्त्येन वक्तुमशक्यत्वात् । हिर्यस्मात् कारणात् कवीन्द्राणामता लोकोत्तरा भङ्गीभणितयो विच्छित्तिविशेषोक्तयोऽनन्ताः सङ्ख्यातीता वर्तन्ते । ता एव चालङ्कारास्ततश्चानन्त्या देवैताः सर्वा अपि वक्तुं न शक्यन्त एवेत्यर्थ इति ॥ ९८ ॥ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy