________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । "प्रत्यग्रमजनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता । विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपप्रभवा लतेव ॥९७७॥" इत्यादौ लता विभ्राजते न तु विभ्राजसे इत्यादि पुरुषभेदः।
'गङ्गेव प्रवहतु ते सदैव कीर्तिः।' इत्यादौ गङ्गा प्रवहति, न तु प्रवहत्वित्यादि ॥
विध्यादिभेदश्च यः केनाप्यस्यां ह(प)रिहार्यत्वेनोक्तः, स न कैश्चन कोविदैरपि शक्यः परिहर्तुमुपमानोपमेययोः प्रयाणैककालमनुत्पया सम्बोधनाशीर्वादाविषयत्वेन च कवितायां निर्विषयताप्रसङ्गादिनाऽनुपितं परिहार्यत्वादभिधानम् ॥ ९५॥
अथोत्प्रेक्षादोषमाहनोत्प्रेक्षा क्षमते वक्तुं यथाशब्द इवादिवत् ।
तां समर्थयितुं नार्थान्तरन्यासोऽपि युज्यते ॥ ९६ ॥ इवादिवत् ध्रुवं-शङ्के-मन्ये-प्रभृतयः शब्दा यथोत्प्रेक्षां वक्तुं क्षमन्ते, न तथा यथाशब्दस्तस्य सादृश्यमेव वक्तुं क्षमत्वात् । यथा__ " उद्ययौ दीधिकागभन्मुकुलं मेचकोपमम् ।
नारीलोचनचातुर्यशङ्कासङ्कुचितं यथा ।। ९७९ ॥" तथा तामुत्प्रेक्षां समर्थयितुमर्थान्तरन्यासाश्रयणमपि न युज्यते । सम्भावितत्वादतात्त्विकरूपवत्वेनाकाशकुसुमप्रायायां तस्यामर्थान्तरन्यासस्य भ्रमरसंनिवेशतुल्यत्वात् । यथा
" दिवाकराद् रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्न(ने) ममत्वमुच्चैःशिरसामतीव ॥ ९८० ॥"
अत्राचेतनस्य तमसः सूर्यात् त्रास इ(ए)व न सम्भवति । कुतस्तद्धेतुकमद्रिणा परित्राणम् ? । सम्भावितेन तु रूपेण द्वयमपि किमप्य[प]पादयितुं शक्यते । तत्समर्थनाय यत्नस्तु व्यर्थ इ.ए)व ॥ ९६ ।।
४३
For Private And Personal Use Only