SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ द्वितीयो यथा" सरांसीवामलं व्योम काशा इव सितः शशी । शशीव धवला हंसा हंसीव विशदा दिशः॥ ९७३ ॥" अत्र वचनभेदादमलत्वादिधर्मा अप्येवमेव । यदि तु लिङ्गभेदेऽपि धर्माणामेकरूपत्वं तदा न दोषस्तस्योभयत्राप्यनुगमक्षमत्वात् । यथा- " तद्वेषः सदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ॥ ९७४ ॥" अत्र सदृश इति मधुरताभृत इति चेति धर्मा उभयानुगामिनः ।। ९४ ॥ अस्या एव दोषान्तरमाहभजतोऽस्यामसादृश्यासम्भवावपि नेष्टताम् । तत्रासादृश्यं यथा" अनामि काव्य-शशिनं विततार्थरश्मिम् ।" अत्र काव्यस्य शशिनाऽर्थानां च रश्मिभिः सा दृश्यं कापि न प्रतीतम् । असम्भवो यथानिपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः। जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोऽकात् ॥९७५॥" अत्र ज्वलन्त्यो वारिधाराः सूर्यमण्डलानिपतन्यो न सम्भवन्ति । अथास्या दूषणान्तरानङ्गीकारार्थमाहशक्यः कालादिभेदस्तु परिहर्तुं न कैश्चन ॥ ९५ ॥ " अतिथिं नाम काकुस्थात् पुत्रमाप कुमुदती । पश्चिमाद् यामिनीयामात् प्रसादमिव चेतना ॥ ९७६ ॥" इत्यादौ चेतना प्रसादमामोति, न त्वापेत्यादि कालभेदः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy