________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
प्रमाणाधिकत्वं यथा" पातालमिव नामिस्ते स्तनौ क्षितिधरोपमौ ।
वेणीदण्डः पुनरयं कालिन्दीपातसनिमः ॥९६९ ॥" पशु-चण्डालादिभिरुपमानैन्यूनाधिकैरत्यन्तमनुचितैः प्रस्तुतोऽर्थः कामं कदर्थितः।
धर्माधिकत्वं यथा+" अहिणवमणहरविरइयवलयविहूसा विहाइ नववहूआ ।
कुन्दलय व समुप्फुल्लगुच्छपरिलीणभमरगणा ।। ९७० ॥" अत्र भ्रमरगणस्याधिकत्वम् ।
धर्मन्यूनत्वं यथा*" संहयचक्कायजुआ विअसिअकमला मुणालसंच्छन्ना ।
वावी बहु व्व रोयणविलित्तथणया सुहावेइ ॥ ९७१॥" अत्र नेत्रबाहूपमानपदानि वधूविशेषणत्वेनाभिहितानि ।। ९३ ॥
____ अथास्या दूषणान्तरमाहदूषयत्युपमा भेदो लिङ्गस्य वचनस्य च ।
यदि साधारणं धर्ममन्यरूपं करोत्ययम् ॥ ९४ ॥ उपमोपमेययोलिङ्गभेदो वचनभेदश्वोपमा दूषयति । यदि साधारणं समान धर्ममन्यरूपमन्यादृशमयं भेदः करोति । तत्राद्यो यथा
" वापीव विमलं व्योम हंसीव धवला शशी ।
शशिलेखेव हंसोऽयं हंसालिरिव ते यशः ।। ९७२ ॥" अत्र विमलत्वादिधर्मा लि-ङ्गभेदानोभयानुगमक्षमाः ।
+ अभिनवमनोहरविरचितवलयविभूषा विभाति नववधूका । ___ कुन्दलतेव समुत्फुल्लगुच्छपरिलीनभ्रमरगणा ।। * संहत चक्रवाकयुगा विकसितकमला मृणालसंछन्ना । वापी वधूरिव रोचनविलिप्तस्तना सुखयति ।।
For Private And Personal Use Only