SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३४ अलकारमहोदी " अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि ! माम् । कम्बुकण्ठ्याः क्षणे कण्ठे कुरु कण्ठातिमुद्धर ॥९६६ ॥" अत्र शृङ्गारोचितायामुपनागरिकायां परुषवर्णत्वं विरुद्धम् ॥ ९१ ॥ अथ यमकदोषमाहपादत्रयगतत्वेन यमकं न प्रयुज्यते । पादत्रयाश्रितमेव यमकं न प्रयोक्तव्यम् । यथा" भुजङ्गमस्येव मणिः सदम्भा [ग्राहावकीर्णेव नदी सदम्भाः।] दुरन्तता निर्णयतोऽपि जन्तोः कर्षन्ति चेतःप्रमुखैः सदम्भा [:]॥९६७॥" अत्र तृतीयपादे यमकं नास्ति । - अथोपमादोषानुपक्रमते___अथेदमुपमादोषजातं किमपि कथ्यते ॥ ९२ ॥ अथेत्यनुप्रासदोषानन्तरं उपमाया दोषजातं दूषणवृन्दं किमपि स्तोकं कथ्यतेऽभिधीयते ॥ ९२ ॥ अथ दोषजातमेवाह-- जाति-प्रमाणयोन्यूनाधिकत्वमुपमानगम् । धर्माश्रितोऽधिकन्यूनभावोऽप्यस्यां न सम्मतः॥९३ ॥ उपमानगमुपमानस्थितं जातेः प्रमाणस्य च न्यूनत्वमधिकत्वं च । सथा धर्माश्रितो धर्मसङ्ख्याविषयोऽधिकभावो न्यूनभावश्चास्यामुपमायां न सम्मतो नामीष्टः। तत्र जातिन्यूनत्वं यथा-' चण्डालैरिव युष्माभिः साहसं परमं कृतम् ।' प्रमाणन्यूनत्वं यथा-वह्निस्फुलिङ्ग इव भानुरयं चकास्ति ।' जात्यधिकत्वं यथा" अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान् वेधा विनिमित्सुरिव प्रजाः ॥ ९६८ ॥" For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy