SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः।। ३३३ "लक्षिता इत्यलङ्काराः काव्यसौन्दर्यहेतवः। दोषास्तेषामिदानीं तु कांश्चिदप्यभिदध्महे ॥ ९०॥" इति पूर्वोक्तप्रकारेणालङ्कारा अनुप्रासोपमादयः कविताचारुत्वकारणभूता लक्षिता लक्षणोपेतत्वेन कथिताः । इदानी सम्प्रति तेषां कांश्चिदपि दोषानुस्कर्षव्याहतिहेतूनभिदध्महे ब्रूम इति ॥ ९० ।।। अथानुप्रासदोषानाहप्रसिद्धयभावो वैफल्यं तथा वृत्तिविरुद्धता । एतेऽनुप्रासमाश्रित्य दोषाः सङ्कीर्तितात्रयः ॥ ११ ॥ प्रसिद्धेः शास्त्रीयाया लौकिक्या वाऽभावोऽविद्यमानता। वैफन्यं निष्फलता तथा वृत्तीनामुपनागरिकाऽऽदीनां विरुद्धत्वमित्येते त्रयो दोषा अनुप्रासमाश्रित्य अनुप्रासविषये सङ्कीर्तिताः कथिताः । तत्राद्यो यथा" चक्री चक्रारपङ्क्तिं हरिरपि च हरीन् धूर्जटि जान्ता नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूचराग्रं कुबेरः । रंहः सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्धहमहिमरुचेः सोऽवतात् स्यन्दनो वः ॥ ९६४॥" अत्र कर्ट-कर्मनैयत्येन स्तुतिरनुप्रासानुरोधेनैव कृता, न तु पुराणेतिहासा दिषु तथा प्रतीतेति प्रसिद्धिविरोधः । वैफल्यं यथा" स्वच्छन्दोच्छलदच्छकच्छ कुहरच्छातेतराम्बुच्छटामूर्छन्मोहमहर्षिहर्षविहितस्नानाटिकाऽहाय वः । भिद्यादुद्यदुदारदु(द)र्दुरदरी दीर्घादरिद्रद्रुमद्रा(द्रो)होद्रेकमयो ममेन्दु(-होमिमेदु-)रमदा मन्दाकिनी मन्दताम् ॥९६५॥" अत्र वाच्यस्य न किञ्चिच्चारुत्वमस्तीति निष्फलत्वमेवानुमासस्य । वृत्तिविरुद्धत्वं यथा For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy