SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३३२ अलङ्कार महोदधौ प्रस्तुत - प्रशंसेति सन्देहः । यत्र तु साधकं बाधकं वा प्रमाणमस्ति तत्रैकतरपरिग्रहस्तत्र साधकं यथा 46 Acharya Shri Kailassagarsuri Gyanmandir रोहन्मूलातिगौरैरुरगपति फरत्र पातालकुक्षौ प्रोद्यद्वालाङ्करभीर्दिशि दिशि दशनैरेभिराशा गजानाम् । अस्मिनाकाशदेशे विकसितकुसुमा राशिभिस्तारकाण नाथ ! स्वत्कीर्तिवल्ली फलति फलमिदं विम्बमिन्दोः सुधाऽऽर्द्रम् ॥ ९६० ॥" अत्र रोहन्मूलत्वादीनि विशेषणानि कीर्तिरेव वल्लीति रूपकसाधकानि कीर्तिर्वल्लिरिवेत्युपमां प्रति तु न साधकानि न च बाधकानि प्रतीयमानोत्प्रेक्षां प्रति रूपकस्याङ्गभावः । बाधकं यथा -- " शरदीव प्रसर्पन्त्यां तस्य कोदण्डटास्कृतौ । " विनिद्रजृम्भितहरिर्वि (वें) ध्योदधिरजायत ।। ९६१ ॥ अत्र विनिद्रजृम्भितहरिरिति साम्योक्तिरुपमाया बाधकं प्रमाणम् । “उपमेयं व्याघ्राद्यैः साम्यानुक्तौ " [ सिद्धहेम ० ३ । १ । १०२] इति वचनादुपमासमासाभावात् । तथा एकस्मिन्नभिने वाचके वा पदे द्वित्राद्यलङ्काराणामनुप्रवेशे - नावस्थाननेति । 66 तृतीयो यथा मुरारिर्निर्गता नूनं नरकप्रतिपन्थिनी । तवापि मूर्ध्नि गङ्गेव चक्रधारा पतिष्यति ॥ ९६२ ॥ " अत्र मुरारिर्निर्गतेत्यर्थश्लेषोद्भवाया उपमाया नरकप्रतिपन्धिनीति शब्दश्लेषोद्भवायाश्चैकस्मिन्निवशब्दे सङ्कीर्यमाणत्वादर्थालङ्कारसङङ्करः । शब्दार्थालङ्कारसङ्करो यथा " स्पष्टोम किरण के सर सूर्यविम्बं विस्तीर्णकर्णिकमथो दिवसारविन्दम् । शिष्टाष्टदि गूदलकलापमुखावतारबद्धान्धकारमधुपादाले सञ्चुकोच ॥ ९६३ ॥ " अपदानुप्रविष्टौ रूपकानुप्रासौ ॥ ८९ ॥ 'अथालङ्कारोपसंहारपूर्वं तदोषाभिधानं प्रतिजानीते : इतः परं पत्रस्याभावाद व पुस्तिकाऽपि विकला । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy