SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माष्टमस्तरजः। अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः। ३३१ सच सङ्कस्त्रिप्रकारस्तद्यथा-तेषामलङ्काराणामात्मन्येव विश्रान्तिमनाप्नुवतामङ्गाङ्गिभावेन परस्परमवयवावयविस्वरूपेणैत्येकः । यथा " आसे सीमन्तचिह्न मरकत(ति)नि ह(ह)ते हेमताडपत्रे . लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते । शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन् ! गुलाफलानां सज इति शबरा नैव हारं हरन्ति ॥९५६॥" अत्र तद्गुणमाश्रित्य भ्रान्तिमानाविर्षभूव । भ्रान्तिमदुपष्टम्भेनैव च तद्गुणोऽपि चेतनचमत्कारीत्यनयोः परस्परमङ्गाङ्गिभावः । यथा वा" रजोमिस्तुरगोत्कीर्णैर्गजैश्च घनसनिमः । भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम् ।। ९५७॥" अत्र परिवृत्तिरुपमाङ्गभूता। शब्दालङ्कारविषयेऽप्येष कैश्चिदुदाह्रियते यथा" राजति तटीयमभिहत-दानव-रासातिपातिसारावनदा । गजता च यूथमविरत-दान-वरा सातिपाति सारा वनदा ॥९५८॥ " अत्राभिहतदानवरासेति शम्भुसम्बोधनम् । अत्र यमकानुलोम-प्रतिलोमयो सङ्करः स चाङ्गाङ्गिभावरूपोऽत्र न युक्तः । शब्दालङ्कारयोमिथासापेक्ष्य(क्ष)त्वा. भावान वक्ष्यमाणस्त्वेकवाचकानुप्रवेशसङ्करो न विरुष्यते। तथा द्वयोः प्राप्तौ यत्रै. कतरपरिग्रहे साधक-बाधकप्रमाणाभावः स संशयस्तस्यानुगमेन द्वितीयो यथा *"जह गंभीरो जह रयणनिम्मरो जह य निम्मलच्छाओ। ____ ता कि विहिणा सो सरसवाणिओ जलनिही न कओ। ॥९५९॥" अत्र समुद्रे प्रस्तुते विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः किमसौ समासोक्तिः ? किमब्धेरप्रस्तुतस्य मुखेन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतिपचेरियम* यथा गम्भीरो यथा रत्ननिर्भरो यथा च निर्मलच्छायः। तत् किं विधिना स सरसपानीयो जलनिधिर्न कृतः १ ॥ १ अ. ०षसा० । २ अ. प्रप० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy