SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३० अलङ्कारमहोदधौ " वदनसौरभलोभपरिभ्रमभ्रमरसम्भ्रमसम्भृतशोभया । वलितया विदधे कलमेखलाकलकलोऽलकलोलदृशाऽन्यया ॥९५३॥" अत्रानुप्रास-यमकयोर्विजातीययोर्लकलोलकलोल इति कलोल कलोल इति सजातीययोः संसृष्टिः। द्वितीया यथा" पिनष्टीव तरङ्गारुदधिः फेनचन्दनम् । तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गना[:] ॥९५४॥" अत्र सजातीययोरुत्प्रेक्षयोर्यथा वा 'लिम्पतीव तमोऽङ्गानि ' इत्यादि । अत्रोत्सेक्षोपमयोर्विजातीययोः। तृतीया यथा" आनन्दमन्थरपुरन्दरमुक्तमान्य मौलौ हठेन निहितं महिषासुरस्य । पादाम्बुजं भवतु वो विजयाय मञ्जु मञ्जीरसिञ्जितमनोहरमम्बिकाया|९५५।।" अत्रानुप्रासोपमयोः पादाम्बुजमित्यत्र झुपमाया मञ्जीरसिञ्जितं साधकं प्रमाणं रूपकस्य तु प्रतिकूलमम्बुजे तस्याभावात् ॥ ८७ ॥ अथ सङ्करमाहस्वीकृत्य समवायाख्यं सम्बन्धं क्षीर-नीरवत् । संसृज्यन्ते पुनर्यस्मिन् केऽप्यमी सैष सङ्करः ॥८॥ क्षीर-नीरन्यायेन समवायाख्यमयुतसिद्धानामाधार्याधारभूतानां य इहेति प्रत्ययहेतुः सम्बन्धः स समवाय इति लक्षणलक्षितं तादात्म्यरूपं सम्बन्धमङ्गीकृत्य यस्मिन् यत्र पुनः केऽप्यमी पूर्वोक्ता अलङ्काराः संसृज्यन्ते संसर्गमनुभवन्ति स एष सङ्करो नामालङ्कारः ॥ ८८ ॥ अथास्य प्रकारानाहतेषामङ्गाङ्गिभावेन संशयानुगमेन वा । एकस्मिन् वाचके वाऽनुप्रवेशेन स च त्रिधा ॥ ८९ ॥ १ अ. शंक० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy