SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । ३२९ एमिस्तत्परिरम्मनिर्भरतरैरङ्गैः कथं स्थीयतां ? कष्टं तद्विरहेण सम्प्रति वयं कृच्छामवस्थां गताः ॥९५०॥" अत्र चिन्ताविप्रलम्भस्य । ऊर्जस्वि यथा"बन्दीकृत्य नृप! द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणयन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः । अस्माकं सुकृतैदृशोर्निपतितोऽस्यौचित्यवारांनिधे ! विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ।।९५१॥" अत्र रसाभाव(वा)मासौ प्रथम-द्वितीयार्धयोत्यौ रत्याख्यभावस्य । समाहितं यथा" अविरलकरवालकम्पनै कुटीतर्जन-गर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणेक्षणात् ।।९५२।।" अत्र मदप्रशमो रत्याख्यभावस्य ॥ ८६ ॥ । इत्यलङ्कारानमिधाय तेषामन्योन्यसम्पर्कजनितमलङ्कारद्वयमिदानी विवक्षुरादौ संसृष्टिमाह त एते यत्र सम्पृक्तास्तिल-तन्दुलवन्मिथः। स्वातन्त्र्येणावतिष्ठन्ते संसृष्टिः साऽभिधीयते ॥ ८७ ॥ सम्पर्को हि तिल-तन्दुलन्यायेन संयोगरूपः क्षीर-नीरन्यायेन च समवायरूपस्तत्र पत्र क्वचित् त एते प्रसिद्धिं काष्ठों प्राप्ता अलङ्कारास्तिलतन्दुलवन्मिथः परस्परं सम्पृक्ताः सम्मिलिताः स्वातन्त्र्येण पृथक् पृथक् प्रतीयमाना अवतिष्ठन्ते सा संसृष्टिनामाऽलङ्कतिः । यथा मणि-मुक्तासुवर्णादीनां पृथक् शोभाहेतुत्वेऽपि तत्सम्पर्कविशेषकृतं शोमान्तरमन्मीलति तद्वदेतेषामपीत्यलङ्कारान्तरमेतत् । सा च शब्दालङ्कारसंसृष्टिरालङ्कारसंसृष्टिरुभयसंसृष्टिश्चेति त्रिधा । तत्राद्या यथा For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy