SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ - महापुंसः कस्याप्युदाराशयस्य पुरुषस्य चरितं च वृत्तं प्राप्यनिभूते बस्तुन्यङ्गत्वमङ्गतामागतमुदात्तालङ्कारः । यथा" तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी। निवसन् बाहुसहायश्चकार रक्षाक्षयं रामः ॥ ९४८॥" अत्रारण्यवर्णनस्य प्रकर्षाधायकत्वेन रामचरितमङ्गभूतम् ॥ ८४ ॥ अपराङ्गरूपतासाधादुदात्तानन्तरं रसवदादीन् लक्षयतिरसा भावास्तदाभासा भावशान्त्यादयोऽपि वा। यत्रात्मानं गुणीकृत्य धारयन्त्यपराङ्गताम् ॥ ८५ ॥ अलङ्काराः क्रमात् तस्मिन् अमी कैश्चिदुरीकृताः। रसवत्-प्रेय-ऊर्जस्वि-समाहितपुरःसराः ॥ ८६ ॥ रसादयः पूर्वप्रतिपादितरूपाः सर्वेऽप्येते यत्र कचिदात्मानं गुणीकृत्यापरस्य रसादेरेवाङ्गतामवयवतां धारयन्ति तस्मिन् विषये इमे रसवत्-प्रेय-ऊर्जस्त्रिसमाहितादिनामानोऽलङ्काराः कैश्चिदलङ्कारकारैरुरीकृता अङ्गीकृताः। इह यद्यपि भावोदयादयोऽलङ्कारत्वेन नोक्तास्तथापि केनाप्युच्येरन् इत्यादिशब्द-पुर:सरशब्दयोग्रहणम् । रसो विद्यते यत्र तद् रसनिबन्धनम् । एवं प्रेयःप्रभृतीन्यपि निबन्धनविशेषणानि । तत्र रसवद् यथा" कि हास्येन न मे प्रयास्यसि पुरः प्राप्तश्विराद् दर्शनं केयं निष्करुण ! प्रवासरुचिता केनासि दूरीकृतः । स्वमान्तेष्वपि वो वदन् प्रियतमव्यासक्तकण्ठग्रहो बुध्धा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ।। ९४९ ॥" अत्र शृङ्गारः करुणस्य, सोऽपि राजविषयरत्याख्यभावस्य । प्रेयो यथा" तद्वक्त्रामृतपानदुर्ललितया दृष्टया व विश्रम्यतां १ तद्वाक्यश्रवणाभियोगपरयोः श्रव्यं कुतः श्रोत्रयोः । - १ व. विति । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy