SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । ३२७ अत्र [हि] पूर्वमगस्त्यस्य पानाय समुद्रचुलुकीकरणकाले पुराणाभिप्रायेण मत्स्यावतारस्य संवृत्तत्वादतीतत्वेऽपि, कूर्मस्य चोत्पत्स्यमानत्वाद् भविष्यत्वेऽपि कविवणितमुनिज्ञात(न)माहात्म्यादुभयोः प्रत्यक्षत्वम् । यथा वा" आसीदञ्जनमत्रेति तवोत्पश्यामि चक्षुषी । भाविभूषणसम्भारां साक्षात् कुर्वे तवाकृतिम् ॥ ९४५॥" अत्राद्धे भूतस्य, द्वितीये भाविनोऽर्थस्य दर्शनम् । अन्ये तु यत्र गूढस्यापि वक्तृभावस्य [पद]सन्निवेशवशादुङ्गेदो भवति तत्र माविकमाहुः । यथा"निःशेषच्युतचन्दनं स्तनतट निर्नष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तथेयं तनुः । मिथ्यावादिनि-" इत्यादि। अत्र दूतीदुश्चेष्टितज्ञानस्य गुप्तस्यापि पदसंनिवेशादुद्भेदः ॥ ८३ ।। अथोदात्तमाहउदात्तं तत् तु यत् काममृद्धिव(म)द्वस्तुवर्णनम् । यथास्थितवस्तुवर्णनावतः पूर्वस्यालङ्कारद्वयस्यारोपितैश्वर्यवस्तुवर्णनस्वरूपत्वेन विपक्षभूतं तत् पुनरुदा नामालङ्कारो यत् काममतिशयेन ऋद्धिमतः कविप्रतिमोत्थापितसम्पदुत्कर्षयुक्तस्य वस्तुनः कस्याप्यर्थस्य वर्णनम् । यथा" उच्चीयन्ते स्म वेश्मन्यस(श)नविरहिते यत्नतः श्रोत्रियाणां यत्र श्यामाकीजान्याप चटकवधूचञ्चुकोटिच्युतानि । यस्मिन् दातर्यकस्माञ्चटुलबटुकराकृष्टमुक्तावचूलभ्रष्टास्तत्रैव दृष्टा युवतिभिरलसं घूर्णिता मुक्तिकौघाः ॥ ९४७ ॥ अस्यैव भेदान्तरमाहचरितं च महापुंसः कुत्राप्यङ्गत्वमागतम् ॥ ८४ ॥ For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy