SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२६ अलङ्कारमहोदधौ लताकुळे यासामुपनदि रतक्लान्तशवरी कपोलस्वेदाम्मःपरिचयनुदो वान्ति मरुतः ॥ ९४१॥" एवमन्याऽपि वेदितव्या ॥ ८२ ॥ _____ अथ माविकमाहअत्यद्भुतत्वादव्यस्तसम्बन्धाद् भूत-भाविनाम् । यत् प्रत्यक्षायमाणत्वं भाविकं तद् विभाव्यते ॥ ८३ ॥ अत्यद्भुतत्वादलौकिकत्वादव्यस्तो मिथः साकाङ्क्षपदसन्निधिजनितो यः सम्बन्धः परस्परान्वयस्तस्माच्च यद् भूत-भाविनामर्थानां प्रत्यक्षायमाणत्वं साक्षादनुभ्य(त)कल्पत्वं तत् कवर्भावोऽभिप्रायः स्फुटोऽत्रास्तीति भाविकं नामा. लकारो विभाव्यते निरूप्यते । तच्च भूत-भाव्युभयार्थविषयत्वेन त्रिधा भवति । तत्र भूतार्थविषयं यथा" संवृत्ते सुभगेष्टसङ्गमकथाऽऽरम्भे सखीभिः समं प्राची काञ्चन तां त्वया सह रह क्रीडाऽनुभूतां दशाम् । प्रेमावेशक्शेन विस्मितमुखी साक्षान्मुहुः [कुर्वती] किं किं सा न करोति कस्य न दृशोर्धचे च कौतूहलम् १ ॥९४२॥" अत्रोक्तिवैचित्र्यादतीतार्थस्य प्रत्यक्षायमाणत्वम् । भाव्यर्थविषयं यथा" अद्यापि [श्रवसी] न कुण्डलचले केलिक्कणकङ्कणी बाहू नापि न हारिहारवलयालुण्ठा च कण्ठावनिः । अस्याः पश्य तथापि पङ्कजदृशो विश्वम्प्रियम्भावुकं पश्यामः स्फुटताविभूषणकराभोगं वपुर्वैभवम् ।। ९४३ ॥" अत्र कविप्रौढोक्तिवशाद् भाविनोऽप्यर्थस्य प्रत्यक्षायमाणत्वम् । उमयार्थविषयं यथा" मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः । येनकचुलके दृष्टौ दिव्यौ तौ मत्स्य-कच्छपौ ॥ ९४४ ॥" For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy