________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कौरवर्णनो नामाष्टमस्तरङ्गः ।
३१५
अथ स्वभावोक्तिमाहस्वभावोक्तिः पुनः सूक्ष्मवस्तुसद्भाववर्णनम् ॥ ८२ ॥ न खलु वस्तुस्वरूपमात्रवर्णनमलङ्कारस्तचे सर्वत्राप्यलङ्कारप्रसङ्गात् । न हि वस्तुस्वरूपमात्रवर्णनेन शून्यं किमपि काव्यमस्तीति सूक्ष्मग्रहणम् । सूक्ष्मः कविमात्रागोचरो यो वस्तुनः सन् विद्यमानो भावः परिस्पन्दविशेषस्तस्य वर्णनं सुधासोदरया गिरा प्रकाशनं सा पुनः स्व मावोक्तिः । इयं च संस्थानावस्थानवेष-व्यापारादिभिः स्वरूपैर्मुग्धाङ्गना-डिम्भ-तिर्यग्-नीचादिमिराश्रयैर्देशकाल-शक्ति-साधनादिभिश्च हेतुमिरनेकधा भिद्यते । दिगमात्रं तूदाहियते ।
तत्र संस्थानाश्रया स्वभावोक्तिर्यथा" स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुश्चितसव्यपादम् । .
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ।। ९३८॥" अत्र धनुर्धरसंस्थानमीडगेव स्यादिति ।
मुग्धाङ्गनाश्रया यथा*" सहिआहिं भन्नमाणी थणए लग्गं कुसुंभपुप्फ ति ।। मुद्धवहूआ हसिजह पप्फोडती नहवयाई ।। ९३९ ॥"
___तिर्यगाश्रया यथा" लीढ-व्यस्र-विपाण्डुराग्रनखयोराकर्णदीर्ण मुखं
विन्यस्याग्रिमयोर्युगे चरणयोः सद्यो विभिन्न द्विपः । एतसिन् मदगन्धवासितसटः सावज्ञतिर्यग्वलत्मुक्कान्ताहतिधूतलोलमधुपः कुञ्जेषु शेते हरिः ।। ९४० ॥"
देशाश्रया यथा" इमास्ता विन्ध्याद्रेः शुक-हरितवंशीवनघना
भुवः क्रीडालोलद्विरदरदनारुग्णतरवः । * सखीभिर्मण्यमाना स्तनके लग्नं कुसुम्मपुष्पमिसि । मुग्धव ईस्यो प्रस्फोटयन्ती नखपदानि ।।
ना
For Private And Personal Use Only