________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२४
अलङ्कारमहोदधौ
... आकारादप्र[यनकृताङ्गविकृतेरिङ्गितात् प्रयत्नकतचेष्टाविशेषादादिशदादन्यस्मात् तथाविधनिमित्ताद् विज्ञाय सूक्ष्मोऽपि स्थूलमतिदुर्लक्ष्योऽप्यर्थः केनापि कुशाग्रीयबुद्धिना केनचिद् वैदग्ध्येन यत् प्रकाश्यते तत् सूक्ष्ममित्यलकारो लक्ष्यते ।
- तत्राकाराद् यथा" वक्त्रस्प(स्य)न्दिस्वेदविन्दुप्रबन्धे दृष्टा(ष्ट्वा) भिन्नं कुङ्कम काऽपि कण्ठे।
पुंस्त्वं तन्व्या व्यञ्जयन्तीव तस्याः स्मित्वा पाणौ खगलेखां लिलेख ॥९३५।। - अत्र स्वेदभिन्नकङ्कमरूपेणाकारेण विज्ञाय पुरुषायितं पाणौ पुरुषोचितख. गलेखालेखनवैदग्ध्येन प्रकाशितम् । .
इङ्गिताद् यथा" सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया।
* हसन्नेत्रार्पिताकृतं लीलापमं निमीलितम् ।। ९३६ ।। " अत्र विटस्य सङ्केतकालाभिप्रायस्तत्सम्बन्धिना भूत्क्षेपादिनङ्गितेन ज्ञात्वा रजनिभाविना लीलापानिमीलनेन प्रकाशितः ॥ ८१ ॥
. अथ व्याजोक्तिमाहव्याजोक्तिर्गोपनं यत्र व्याजादुद्भिन्नवस्तुनः। निगूढस्यापि कुतश्विनिमित्तान्तरादुद्भिन्नस्य व्यक्तिमायातस्य वस्तुनो व्याजात् कुतश्चिदपदेशाद् यत्र निगृहनं सा व्याजोक्ति मालकृतिः । यथा
" शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्:
रोमाञ्चादिविसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा ! शैत्यं तुहिनाचलस्य करयोरित्युचिवान् सस्मितं
शैलान्तःपुरमातृमण्डलगणैदृष्टोऽवताद् वः शिवः ॥ ९३७ ॥" अत्र रोमाश्चादिभिरुद्भिन्नो रतिभावः शैत्यापदेशाभिगृहितः । न चेयमपह्नतिः प्रकृताप्रकृतनिष्ठस्य साम्यस्यासम्भवात् ।
For Private And Personal Use Only