________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
३२३
अत्रोचराद्धेऽतिरक्तेनापि मनसा संयुक्तो नरक्ततां गत इत्यतद्गुणः। पूर्वार्द्ध तु विभावना । कार्य-कारणभावविवक्षणाभावाच विषमादस्य भेदः ॥ ७९ ॥
अथोत्तरमाहतदत्तरं भवेद यत्र प्रश्नोन्नयनमुत्तरात् । असकृद् वा सति प्रश्ने यत्रासम्भाव्यमुत्तरम् ।। ८० ॥ यत्रानुपनिषद्धस्यापि प्रश्नस्य निबद्धादुत्तरादुन्नयनमभ्यूहनं तदेकमुत्तरं पक्षधर्मताऽऽदेरनिर्देशादनुमानादस्य भेदः । यदि वा प्रश्न सति यत्र किमप्यसम्माव्यमुत्तरं भवति तद् द्वितीयमुत्तरम् । अनयोश्च सकृत्प्रयोगान्न तथाविधं चारुत्वमित्यसदित्युक्तम् । व्यवच्छेद्य-व्यवच्छेदकपरत्वाभा बानेयं परिसङ्ख्या।
तत्राचं यथा*" वाणिअय ! हत्थिदंता कत्तो अम्हाण वग्धकत्ती (य)। ___जा चिलुलिआलयमुही घरंमि परिसक्कए सुण्हा ॥ ९३३ ॥"
अत्र हस्तिदन्त-व्याघ्रकृत्तीमम मून्येन प्रयच्छति ऋतृवचनमुत्तरवाक्यादुनीयते ।
द्वितीयं यथाx" का विसमा ? दिव्वगई, किं लटुं ? जं जणो गुणग्गाही । किं सोक्खं ? सुकलत्तं, किं दुग्गिज्झं? खलो लोओ॥९३४ ॥"८०||
अथ सूक्ष्ममाहज्ञात्वाऽऽकारेङ्गितादिभ्यः सूक्ष्मोऽप्यर्थः प्रकाश्यते । यद् वैदग्ध्येन केनापि तत् सूक्ष्ममिति लक्ष्यते ॥ ८१ ॥ * वणिक् ! हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तिश्च ।
यावद् विलुलितालकमुखी गृहे परिष्वकते स्नुषा । ४ का विषमा ? दैवगतिः, किं लष्टं ? यज्जनो गुणग्राही ।
किं सौख्यं ? सुकलत्रं, किं दुर्गाचं ? खलो लोकः ॥ प. पुस्तिका इतः परं पत्राणामभावादपूर्णा ।
vvvvvvvvvvvvvM
For Private And Personal Use Only