________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२२
अलङ्कारमहोदधौ " वेत्रत्वचा तुल्यरुचा वधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गाः सहेलं यदि वाऽ(ना)पतिष्यन् कोऽवेदयिष्यन्नवचम्पकानि?॥९३०॥"
अत्र निमित्तान्तरजनितायामपि भेदप्रतीतौ प्रथमप्रतिपच्यभेदापेक्षयाऽयमलङ्कारः ॥ ७८ ॥
अथ तद्गुणमाहतद्गुणः स्वगुणत्यागाद् योगेऽधिकगुणस्य यत् । धत्ते तद्गुणतां वस्तु
आत्मनः सकाशादधिकगुणस्य वस्तुनः सम्बन्धे सति स्वगुणं परित्यज्य यत् किञ्चिद् वस्तु पदार्थस्तद्गुणतां तस्याधिकगुणस्य गुणं कान्त्यादिकं धत्ते गृह्णाति स तद्गुणालङ्कारः । यथा
" विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचं रुचा स्वामानिन्यिरे वंशरीरनीलैः ॥ ९३१ ॥"
अत्र रविरथाश्वानामरुणवर्णस्वीकारस्तस्यापि गारुत्मतरत्नप्रभाऽङ्गीकार इति तद्गुणत्वम् । इह चानपढ्नुतस्वरूपमेव प्रकृतं वस्तु वस्त्वन्तरगुणेनोपरततया प्रतीयते । मीलिते तु प्रच्छादितत्वेनेति तस्मादस्य भेदः ।
___अथातद्गुणमाह
नैव चेत् तदतद्गुणः ॥ ७९ ॥ सम्भवन्त्यामपि योग्यतायां यद्यधिकगुणस्य वस्तुनो गुणं किञ्चिदपकृष्टगुणं वस्तु न कश्चित् स्वीकुरुते तदतद्गुणो नाम । यथा*" धवलो सि जइ वि सुंदर ! तह वि तए मज्झ रंजिअं हिअयं ।
रायभरिए वि हिअएँ सुहय ! निहितो न रत्तो सि ॥ ९३२ ॥" * धवलोऽसि यद्यपि सुन्दर ! तथापि त्वया मम रञ्जितं हृदयम् ।
रागभृतेऽपि हृदये सुभग ! निहितो न रक्तोऽसि ।।
१ अ. गुरुडात्मजेन । २ अ. रैरनी । ३ व. कंचि० । ४ व. प. हिय० ।
For Private And Personal Use Only