SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधिकार-प्रशस्तिः। इत्थं दोषपराङ्मुखी गुणपरीरम्भैकसंरम्भिणी नानाऽलङ्कतिशालिनी रसपरिस्यन्दामृतस्यन्दिनी । वक्त्रे वल्गति वाक् प्रसन्नमधुरा धाम्नीव सीमन्तिनी तस्यैव स्वगुरोः प्रसीदति परं यत्रांहिपकेरुहम् ॥ ९९ ॥ इत्यलङ्कारमहोदधौ अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ॥ ८ ॥ [ग्रन्थकार-प्रशस्तिः] गच्छे हर्षपुरीये गुणसेवधिरभयदेवसुरिरभूत् । मलधारीत्यभिधाऽन्तरमधत्त यः कर्णभूपकृतम् ॥ १ ॥ शिष्यस्तदीयोऽजनि हेममूरिरपारविद्यार्णव-कर्णधारः । श्रीसिद्धराजः किल यस्य वाचं बभार शेषामिव मूर्ध्नि शश्वत् ॥ २॥ तस्य भुवनप्रशस्यः शिष्यः श्रीविजयसिंहमूरिरभूत् । आन्तरविरोधिकरिकुलविजये सिंहायितं येन ॥ ३ ॥ श्रीचन्द्रसूरिस्तदनु प्रदत्तमन प्रमोदोऽजनि कोविदानाम् । सारस्व [त]श्रो(स्रो तसि यस्य खेलन् केषां न हर्षाय यशो-मराला ? ॥ ४ ॥ जज्ञे शमाम्बुनिघिरस्य पदे जनानामानन्दभूः स भगवान् मुनिचन्द्रसूरिः । साम्यामृतं किमपि यत्र तदाऽऽविरासीद् यजन्मिनां सपदि भावरुचोऽप्यहाषीत्। ५ श्रीमुनीन्द्रप्रभोगच्छं गुणैस्तैस्तैरभूषयन् । वक्षो मुक्ता इव स्त्रीणां श्रीदेवानन्दसूरयः ॥ ६ ॥ जगन्मन:-कैरव-शीतरश्मिः श्रीमान् यशोभद्रगुरुस्ततोऽभूत् । जाता तपस्यम्यधिकैव कान्तिः किन्त्वस्य सिद्धान्तसुधामयस्य ॥ ७ ॥ बभूव विद्या-भ्रमरी-सरोजं प्रभुः स देवप्रभसूरिरस्मात् । प्रसादसौरभ्यमवाप्य यस्य मादृविधोऽप्येष सतां मुदेऽभूत् ॥ ८॥ ततो गुणानामधिदैवतं परं जयन्त्यमी श्रीनरचन्द्रसूरयः । यद्वाचि विन्यस्तभराऽद्य भारती बिभर्ति ला(भा सुखसङ्गमं चिरात् ।। ९ ।। For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy