SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ द्वितीयं यथा*" ए ! एहि दाव सुन्दरि ! कनं दाऊण सुणसु क्यणिजं : तुज्झ मुहेण किसोअरि! चंदो उपमिजइ जणेण ॥ ९२४ ॥" अत्र वदनस्योत्कर्षाय चन्द्रस्य निकाय चोपमानोपमेयत्वव्यत्ययः । कचित् पुननिष्पन्नमेवौपम्यमनादरकारणम् । यथा" गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे !। ... सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि ॥ ९२५ ॥" अनोत्कर्षमाज उपमानप्रादुर्भाव एव न्यत्कारकारणम् । अनेन न्यायेनात्युत्कृष्टगुणत्वादुपमानभावमपि न सहते । तस्योपमानत्वकल्पनेऽपि प्रतीपमेव । यथा" अहमेव गुरुः सुदारुणांनामिति हालाहलं ! तात ! मा स्म दृष्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन् वचनानि दुर्जनानाम् ।९२६।।" अत्र हालाहलं प्रकृतं प्रकृष्टदोषत्वादसम्भाव्योपैमानमावमप्युपमानत्वेन निबद्धम् ॥ ७६ ।। अथ मीलितमाहसमानेनैव धर्मेण स्थितेनौत्पत्तिकेन वा। वस्त्वन्तरेण यद् वस्तु गोप्यते मीलितं तु तत् ॥ ७७॥ स्थितेन सहजेनोत्पत्तिकेन वा पश्चादुत्पन्ने- समानेनैव सदृशेनैव केनचिद् धर्मेण वस्त्वन्तरेण किञ्चिद् वस्तु निगृह्यते। तत् पुनर्द्विविधं मीलितं नामालङ्कारः। तत्राद्यं यथा* अयि ! एहि वावत् सुन्दरि ! कर्णं दत्त्वा शृणु वचनीयम् । तव मुखेन कृशोदरि ! चन्द्र उपमीयते जनेन ॥ १ प. काऊ० । २ व. ८यरि । ३ अ. • यव्य० । ४ प. भने । ५ अ. र्भावन्यन६अ. नोत्कृ०१७ प. तीतमे०। ८ प. ०रुणाभि०। ९ अ. ०ल मा०। १० प. ०नो मा० । ११ प. लेनैव । १२ प. नेन । १३ प, ०ण ता.। For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy