SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । प्रतिपक्षं प्रतिक्षेप्तुमशक्तौ तत्प्रशस्तये । यस्तदीयस्तिरस्कारः प्रत्यनीकं तदीरितम् ॥ ७५ ॥ विपक्षं बलाधिकतया निराकर्तुमसामर्थ्ये सति केनचित् तस्यैव विपक्षस्य श्लाघातोस्तदाश्रितस्य यस्तिरस्कारस्तदनीकप्रतिनिधिभूताभियो मतुल्यत्वात् प्रत्यनीकमीरितं कथितम् । यथा ३१९ " त्वं विनिर्जितमनोभवरूपः सा च सुन्दर ! भवत्यनुरक्ता । पश्चभिर्युगपदेव शरैस्तां ताडयत्यनुशयादथ कामः ॥ ९२२ ॥ ” अत्र तदनुरक्तायाः कस्याचिन्मदनश्वरताडनात् कामिनः सौभाग्यातिशयद्योतनम् ॥ ७५ ॥ अथ प्रतीपमाह - तेत् प्रतीपं यदाक्षेपः कैमर्थ्यादुपमानगः । तिरस्काराय तस्यैव यच्च क्वाप्युपमेयता ॥ ७६ ॥ उपमेयस्यैवोपमानकार्य-कारण सामर्थ्येन किमर्थमिदमित्यायुक्तियोगादुपमानग उपमानाश्रितो यत्कञ्चिदाक्षेपस्तिरस्कारविशेषस्तदेकं प्रतीपमुपमानं प्रत्युपमेयस्य प्रतिकूलत्वात् । यच्च क्वचिदुपमेयस्योत्कर्षमाधातुं तस्यैवोपमानत्वेन प्रतीतस्य तिरस्काराय निकारार्थमुपमेयता कल्पते । तद् द्वितीयं प्रतीपम् । तत्राद्यं यथा " लावण्यौकसि सप्रतापगरिमण्यग्रे सरे त्यागिनां देव ! त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो ! मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥ २२३॥ " For Private And Personal Use Only अत्र यथासङ्कथमप्यस्ति लावण्यौकसीत्यादिक्रमेणैव चेन्दुः किमित्यादीनां निवेशात् । १ अ. व. ०नता० । २ प. प्रत्प्र० । ३ प ० मागः । ४ अ. श्विष्टाः ।
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy