SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ अलङ्कारमहोदधौ शेते शुष्यति ताम्यति प्रलपति प्रम्लायति प्रेङ्क्षति - भ्राम्मत्युल्लसति प्रणश्यति दलत्युन्मूर्च्छति बुध्यति ॥ ९१८ ॥" अत्र क्रियासमुच्चयः । एवं गुणसमुच्चयोऽप्युदाहार्यः । केचित् पुनः सर्वपदस्थितेनोत्तरपदस्थितेन वा चकारेण योतितं समुचयमेव समुच्चयालङ्कारमाहुः । तत्र सर्वपदस्थितेन यथा " अप्राकृतः स कथमस्तु न विस्मयाय ? यस्मिन्नुवास करुणा च कृतज्ञता च । लक्ष्मीश्च साविक गुणवलितं च तेजो धर्मश्च मान-विनयौ च पराक्रमश्च ॥ ९१९ ॥" । उत्तरपदस्थेन यथा" रूपमप्रतिविधानमनोझं प्रेम कार्यमनपेक्ष्य विकाशि । चाटु चाकृतकसम्भ्रममासां कार्मणत्वमगमद् रमणेषु ॥ ९२० ॥" ___ अथ समाधिमाहसमाधिः कार्यसौकर्य हेत्वन्तरसमागमात् ॥ ७४ ॥ केनचित् कर्तुमारब्धस्य कार्यस्य कारणान्तरसम्पर्कात् यत् सौकर्य सुकरस्वं समाधिर्नामालङ्कारः । यथा " मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्ट्येदैमुदीर्ण धनगर्जितम् ॥ ९२१॥" अत्र माननिराकरणे कार्ये पादपतनं हेतुस्तत्सौकर्यार्थ धनगजितस्य हेत्व. न्तरस्य निबन्धः । अयं चे समुच्चये नान्तर्भवति । तत्र हि कारणान्तरसमासो न तथाविधोपकारकृदेकस्यापि कार्यकारणसामर्थादव तु कार्य सौकर्यादत्यन्तोपकारी ॥ ७४ ॥ अथ वाक्यविशेषाश्रितानलङ्कारान् लक्षयित्या लोकन्यायाश्रितान् लिल. क्षयिषुः प्रथमं प्रत्यनीकमाह-----+-प. अपा० । २ भ..सौकर्यात् । ३ व. तद् । ४ अ. ०नि० - ५ व-च------ स० त.। ६ भ. षानः ।, For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy