________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः ।
३१७ अत्र शशिनः स्वतः शोमनस्यापि धूसरत्वादशोभनत्वमेवमुत्तरेषामपि । अत्र सहचरभिन्नत्वदोषव्युदासाय नृपश्च खलसङ्गत इति पाठः कार्यः । एक. स्मिश्च शशिनि शल्ये शल्यान्तरापातनम् ॥ ॥ ७३ ॥
अस्यैव प्रकारान्तरमाहगुण-क्रियासमावेशो युगपद् यत्र सोऽपरः । । यत्र गुणानां क्रियाणां च व्यस्तानां समस्तानां वा गुण-क्रियाणां युगपदेककालं समावेशः सङ्गमो भवतीति त्रिभेदः। सोऽपरो द्वितीयः समुच्चयः । तत्राद्यो मेदो यथा
"विदलितसकलारिकुलं तव बलमिदमाशु देव ! विमलं च ।
प्रखलमुखानि नराधिप !, मलिनान्येतानि जानानि ।। ९१५ ॥" अत्र चैमल्य-मालिन्यगुणयोः समुच्चयः ।
द्वितीयो यथा-- "प्रतिगृहीतुं प्रणयिप्रियत्वात् त्रिलोचनस्तामुपचक्रमे च ।
सम्मोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥ ९१६ ॥" अत्रोपक्रम-सन्धानक्रिययोः।
तृतीयो यथा" न्यञ्चत् कुञ्चितमुन्मुखं हसितवत् साकूतमाकेकर
व्यावृत्तं प्रसरत् प्रसादि मुकुलं सप्रेम कम्प्रं स्थिरम् । उद्धृ भ्रान्तमपाङ्गवृत्ति विकचं मजत्तरङ्गोत्तरं ।
चक्षुः साश्रु च वर्तते रसवशादेकैकमन्यक्रियम् ॥ ९१७ ॥ " अत्राकेकरादयो गुणशब्दा न्यश्चदित्यादयश्च क्रियाशब्दाः ।
एकाधिकरणत्वेऽप्ययं दृश्यते । यथा" विभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं
शल्यं यद् विदधाति सा विधुरिता साधो ! तदाकर्ण्यताम् । .व. ०मानं । २ प. न्युचित् कुं। । ३ व. मालोकितं ।
For Private And Personal Use Only