SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१६ अलङ्कारमहोदधौ अथ समुच्चयमाहकुर्वाणे कार्यमेकस्मिन् यत्रान्यदपि तत्करम् । असत्-सदुभयावेशात् त्रिविधः स समुच्चयः ॥ ७३ ॥ एकस्मिन् कस्मिंश्चित् कायं कुर्वाणे साध्यं साधयति स्पर्षया यत्र किमप्यन्यदपि हेत्वन्तरं तत्करं भवति । तदेव कार्य प्रति साधकतया पाप्रियते स समुच्चयः स चासतामशोभनानां सतां शोभनानामुभयेषां शोभनासोमनाना च समावेशात् त्रिविधः । तत्राद्यो यथा " दुराः स्मरमार्गणाः प्रियतमो दूरे मनोऽत्युत्सुकं .. गाढं प्रेम नवं वयोऽतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत् कालः कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं मया १ ॥९१२।। " अत्र विरहपीडां स्मरमार्गणेषु कुर्वत्सु तदुपरि प्रियतमदूरस्थित्याधुपात पीडाकारित्वाच्च सर्वेषामशोभनानां योगः। द्वितीयो यथा" कुलममलिनं भद्रा मूर्तिमतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दर्प राजस्त एव तवाकुशाः ।। ९१३ ॥" . अत्रामलकुलादीनां शोभनानां योगः । तृतीयो यथा-- "पशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिज मुखमनक्षरं स्वाकृतेः । प्रमनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्पानि मे ॥ ९१४ ॥" १ भ. कश्चित् । २ प. व. शठः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy