SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । इत्यादावस्याः श्लेषसम्पृक्तत्वमत्यन्तसौन्दर्यनिबन्धनम् ॥ ७१ ॥ अथार्थापत्तिमाहप्रस्तुतादितरस्माञ्च दण्डापूपिकया बलात् । योऽर्थादर्थान्तरापातः साऽर्थापत्तिद्विधा मता ॥ ७२ ॥ इह दण्डापूपयोस्तुल्या ' तस्य तुन्ये कः संज्ञा-प्रतिकृत्योः' [सिद्धहेम ७ । १ । १०८ ] इति के प्रत्यये दण्डापूपिका नाम न्यायो यत्र मूषककर्तृकेणं देण्डभक्षणेन तत्सहचरितमपूपभक्षणमर्थात् सिध्यति तेन न्यायेन प्रस्तुता प्रकृतात्, इतरस्मादप्रस्तुताचार्थाद् यः कश्चिद् बलात् कस्यचिदर्थान्तरस्याप्रस्तुतस्य प्रस्तुतस्य च यथासङ्ख्यमापात आगमनं साऽर्थापत्ति माल. ऋतिर्द्विप्रकारा मता स्मृता । तत्रायः प्रकारो यथा - " पशुपतिरपि तान्यहानि कुच्छ्रादगमयदद्रिसुतासमागमोत्कः । ___ कमपरमवशं न विप्रकुर्युर्विभुमपि यदमी स्पृशन्ति भावाः ॥ ९.९ ॥" अत्रेश्वरवृत्तान्तः प्रकृत इतरजनवृत्तान्तमप्रकृतमर्यादाक्षिपति ॥ १॥ ... द्वितीयो यथा" धृतधनुषि बाहुशालिनि शैला न नमन्ति यत् तदाश्चर्यम् । रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु ? ॥ ९१० ।।" अत्र शैलवृत्तान्तोऽप्रस्तुतो रिपुवृत्तान्तं प्रस्तुतमर्यादाकर्षति । क्वचिन्यायसाम्ये श्लेषनिर्दिष्टेऽप्येषा दृश्यते । यथा" अलङ्कारः शङ्काकरनरकपालं परिकरो विशीर्णाङ्गो भृङ्गी वसु च वृष एको गतवयाः । अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो विधौ बके मूनि स्थितवति वयं के पुनरमी ! ॥ ९११ ॥" अत्र विधौ वक्र इति श्लिष्टम् । अप्रस्तुतश्च स्थाणुवृतान्तः । दण्डापिका च वाक्यविदां न्याय इत्यस्या वाक्यप्रस्तावे भणितिः ॥ ७२ ॥ ............याति...। २. ५.. चंड० । ३ प,' स्माचा० । ४ व. प्रस्तुत: ।५.पपा ... अ. जनो । ७ प.व. प्रशी० । ८ अ. यत्राम। . . For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy