SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । अत्र कलेवरस्य न गुणस्य यशसोत्कृष्टगुणेन । अधिकस्य न्यूनेन यथा" किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वन्कलम् । वद प्रदोषे स्फुटचन्द्र-तारके विभावरी यद्यरुणाय कल्पते ॥ ९.१॥" अत्राभरणानामधिकगुणानां वल्कलेन न्यूनगुणेन । अन्यदीयवस्तुनोऽपरत्र सञ्चरणरूपे व्यत्ययेऽपीयं दृश्यते । यथा" कुमुदवनमपाधि श्रीमदम्मोजखण्डं त्यजति मुदमुलूकः प्रीतिमांश्चक्रवाकः । उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिललितानां ही । विचित्रो विपाकः ॥ ९०२॥" अत्र कुमुदवनादीनां श्रीप्रभृतिवस्त्वम्भोजखण्डोदिषु गतम् । ___ काप्युभयवत्यप्येषा । यथा" लोचनाधरकृतां गतरागा वासिताननविशेषितगन्धा । वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं तु वितेने ॥ ९०३ ॥" अत्र प्रथमे पादे व्यत्ययो द्वितीये तु विनिमय इतीयमुभयवती ॥ ६९ ॥ अथ परिसङ्ख्यामाहएकस्याने कसम्बन्धसम्भवे यन्नियन्त्रणम् । एकस्मिन्नितरत्यागात् परिसङ्ख्यां तु ता विदुः ॥ ७० ॥ एकस्य वस्तुनोऽनेकेन द्वयादिवस्तुना सम्बन्धे सम्भवति इतरत् सर्वमपि परित्यज्य यदेकस्मिन् कस्मिंश्चिद् विविक्षिते वस्तुनि नियन्त्रणं नियमनं तां पुनः परिसङ्ख्यां विदुः स्मरन्ति कवीन्द्राः ।। ७० ॥ अथास्या भेदानाहअप्रश्नपूर्विका प्रश्नपूर्विका चेति सा द्विधा । परित्याज्यस्य शाब्दत्वादार्थत्वाच्च चतुर्विधा ॥ ७१ ॥ १ प. चास्तं हिमांशुई० । २ प. दिग० । ३ प. •मंत्र• । ४ प. न् पयति । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy