SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ आर्थो यथा" तस्याः प्रवृद्धलीलाभिरालापस्मित दृष्टिभिः । ___ जीयन्ते वल्लकी-कुन्द-सगिन्दीवरसम्पदः ॥ ८९७ ।।" अत्रालापादिपदस्य बल्लक्यादिपदस्य च समुदायापेक्षया शाब्दोऽवयवापेक्षया तु समासन्यग्भूतत्वेन तेषामर्थानुममपालोचनादार्थः सम्बन्धः । केऽप्येनमलङ्कारं क्रमसंज्ञमाहुस्तल्लक्षणेऽप्येषेव भङ्गिः । केचित् तु मङ्ग्यन्तरमप्युदाहरन्ति । यथा"पाया वो रचितत्रिविक्रमतनुर्देवः स दैत्यान्तको यस्याकस्मिकवर्धमानवपुषस्तिग्मातेर्मण्डलम् । भीलो रत्नरूपि श्रुतौ परिलसत्ताडकान्ति क्रमा जातं वक्षसि कौस्तुभाभमुदरे नामीसरोजोपमम् ॥ ८९८ ॥" अब मौलिप्रभृतिषु तिग्माते: स्थानक्रमेण रत्नादिभिरौपम्यं निबद्धम् ॥६८॥ ___ अथ परिवृत्तिमाहसम-न्यूनाधिकानां तु यस्यां विनिमयो भवेत्। अथैः समाधिक-न्यूनः परिवृत्तिं गृणन्ति ताम् ॥ ३९ ॥ यस्यां पुनरलङ्कतौ समस्य तुल्यगुणस्य वस्तुनः समेन तुल्यगुणेनैव न्यूनस्य तुच्छगुणस्याधिकेनोत्कृष्टगुणेनाधिकस्य च न्यूनेन वस्तुना यो विनिमय एकस्य परित्यागादन्यस्योपादानं तां परिवत्ति नामालङ्कति गृणन्ति वदन्ति । तत्र समस्य समेन यथा"प्रश्च्योतन्मदसुरभीणि निम्नगानां क्रीडन्तो गजपतयः पयासि कृत्वा । किञ्जन्कव्यवहितताम्रदानलेखैरुत्तेसः सरसिजगन्धिभिः कपोलैः।,८९९॥" अत्र मदामोदस्याम्भोजरजासौरभेण तुल्येन विनिमयः । न्यूनस्याधिकेन यथा“तस्य च अवयसो जटायुषः स्वर्मिणः किमिव(ह) शोच्यतेऽधुना ?। येन जर्जरकलेवरव्ययात् क्रीतमिन्दुकिरणोज्ज्वलं यशः ॥ ९०० ॥" १ प. लंकालं । २ अ. मंडनं । ३ अ. मूलौ । ४ प. नाम्ना गृ०, व. नाम गृ० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy