SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । ३११ अत्र योषितां व्यापारदेशे मार्गणपतनं कार्य स्मरपुरोगामित्वं कारणं साधयति । कविप्रौढोक्तिविच्छिच्या वा (चा)त्र चारुत्वम् | अविनाभावेन यथा " आविर्भवन्ती प्रथमं प्रियायाः सोच्छ्वासमन्तःकरणं करोति । सन्तापदग्धस्य शिखण्डियूनो वृष्टेः पुरस्तादचिरप्रभेव || ८९४ ॥ 17 Acharya Shri Kailassagarsuri Gyanmandir अत्र विद्युदिव वृष्टि कामन्दकी प्रथममुपलभ्यमानाऽविनाभावबलेन मालत्यागमनं गमयति । अत्रोपमागर्भत्वेन चारुता ।। ६७ ।। अथ विशिष्टवाक्यसन्निवेशोपेतानलङ्कारान् व्याचिख्यासुरादौ यथासद्रव्यमाह सम्बन्धः प्राग् निबद्धानामर्थानामुत्तरैः क्रमात् । शाब्दश्चार्थश्च यः सम्यक् तद् यथासङ्ख्यमिष्यते ॥ ६८ ॥ प्रागू निवद्धानां प्रथमं निवेशितानामर्थानामभिषेयानामुत्तरैः पुरः स्थापितैरर्थैः ः सह क्रमाद् यथाक्रमं यः सम्यक् समीचीनः शाब्दः शब्दावसेयः, आर्थश्रावसेयः सम्बन्धो योगविशेषस्तद् यथासङ्कथं नामालङ्करणमिष्यते मन्यते । तत्र शाब्दः सम्बन्धः पदगतो वाक्यगतश्चेति द्विधा । तत्र पदगतो यथा 46 46 एकविधा वससि चेतसि चित्रमत्र देव ! द्विषां च विदुषां च मृगीदृशां च । तापं च संमदरसं च रतिं च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च ॥ ८९५ " अत्र द्विषदादीनां तापादीनां शौर्योष्मादीनां च पदानां क्रमात् सम्बन्धः वाक्यगतो यथा इन्दुर्मूर्ध्नि शिवस्य शैलदुहितुर्वको नखाङ्कः स्तने देयाद् वोऽभ्युदयं द्वयं तदुपमामालम्बमानं मिथः । संवादः प्रणवेन यस्य दलता कायैकतायां तयो द्वारविचिन्तितेन च हृदि ध्यातस्वरूपेण च ॥ ८९६ ॥ 2. अत्रेन्दुर्गृध्नत्यादि वाक्यं शैलदुहितुरित्यादि वाक्यं च ऊर्ध्वद्वारेत्यादिना हृदीत्यादिना च वाक्यद्वयेन क्रमेणैव सम्बध्यते । १ अ० भूविकार० । २ अ द्वेध । ३ प ०सति । ४ प. ०दिना । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy