SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१० www.kobatirth.org अलङ्कारमहicat साध्या साधन प्रत्येय वस्तु निमित्तं साधनस्य तत्प्रतीतिहेतुवस्तुनः पक्षधर्मताअन्वय- व्यतिरेकशालिनो मनोहरा तर्कानुमानविलक्षणेन विच्छित्तिविशेषेण तद्विदाहादिनी या उक्तिर्मणितिः सा पुनरनुमानं नामालङ्कारः । तत्र कचित् कारणात् कार्यस्य प्रतीतिः, क्वचित् कार्यात् कारणस्य, क्वचित् पुनरविनाभावेन' वस्त्वन्तराद् वस्त्वन्तरस्य । 66 तत्राद्यो भेदो यथा -- अविरलविलोलजलदः कुटजार्जुनैसुरभिवनवातः । अयमायातः कालो हन्त ! हताः पथिकगेहिन्यः || ८९१ || " अत्र मेघसमयात् कारणभूतात् कार्यभूतं विरहिणीमरणमनुमीयते । द्वितीयो यथा 66 यथा रन्ध्रं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः || ८९२ ॥ " अत्र धूम - स्फुलिङ्ग- ज्वालोल्लसनानि कार्यकारणानि दवशब्दाभिधेयं वह्नि गमयन्ति । काव्यद्वयेऽप्यत्र पूर्वत्र कार्य-कारणभूतयोः कालागम - पान्थस्त्रीघातयोः समकालोपनिबन्धादतिशयोक्ति गर्भत्वेनोत्तरत्र तु रूपकगर्भत्वेन विच्छित्तिविशेषप्रतीतिः । कचित् तु शुद्धत्वेनापि यथा Acharya Shri Kailassagarsuri Gyanmandir - " यत्रैता लहरीचलाचलदृशो व्यापारयन्ति ध्रुवं यत् तत्रैव पतन्ति सन्ततमभी मर्मस्पृशो मार्गणाः । तच्चक्रीकृतचापमश्चितशरप्रेङ्खत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सदाऽऽसां स्मरः ॥ ८९३ ।। " १ अ. साध्यमानप्र० । व न - नीपसु० । ३ प. विरहिणां । ४ प. ०जालो० । ५ अ. प भूतानि । ६ अ. प. कारणकार्य । → For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy