SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अलङ्कारमहोदधौ अत्र रूपसर्गादीनां पूर्व पूर्व संस्कारकत्वं तिलायतीति पदं च दीपकं गृखलाक्रमरूपम् । चारुत्वविशेषाय दीपकप्रस्तावमुल्लय लक्षणमत्रैवास्य कृतम् ॥६५॥ अथ तर्कपरिमलालङ्कतमलङ्कारद्वयं विमणिषुरादौ काव्यलिङ्गमाहपदार्थस्याविशेषेण विशेषणगतिस्पृशः ।। यत्र स्फुरति हेतुत्वं वाक्यार्थस्तु निबध्यते ॥ ६६ ॥ हेतुभावं स्पृशन्नेव काव्यलिङ्ग तदुच्यते । यत्र यस्मिन् पदार्थस्यैकानेकपदवाच्यस्याविशेषेण सामान्येन यस्य कस्यचित् कई-कादेविशेषणंगतिस्पृशो विशेषणभावभृतो हेतुत्वं कश्चिद् भणितिविशेष प्रति कारणत्वं स्फुरति । वाक्यार्थस्तु परस्परान्वितपदसन्दो. हार्थः पुनरेकानेकरूपो हेतुभावं हेतुतां स्पृशन्नेव स्वीकुर्वन्नेव निबध्यते । बस्य हेतुत्वमर्थान्तरन्यासादस्य भेदाभावप्रसङ्गात् । तदिदं द्विप्रकारं काव्य. लिङ्गमुच्यते । तत्रैकपदार्थो हेतुर्यथा" भस्मोद्धूलन ! भद्रमस्तु भवते रुद्राक्षमाले ! शुभं हा ! सोपानपरम्परां गिरिसुता-कान्ताऽऽलयालकृतिम् । अत्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ।।८८६॥" अत्र महामोहे सुखालोकोच्छेदिनीति विशेषणपदार्थों हेतुः । यथा वा" नीरागा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे त्रस्ता कोकिलकूजितादपि गिरं नोन्मुंद्रयत्यात्मनः । चित्रं दुस्सहदाहदायिनि धृतद्वेषाऽपि पुष्पायुधे तन्वङ्गी सुभग ! त्वयि प्रतिदिनं प्रेमाधिकं पुष्यति ।। ८८७॥" म पूर्वकं । २ प. च पदं । ३ प. ०षगः । ४ प. ०षगग । ५ प. व. न क. । ६ अ. शुभे । ७ अ. प. रोषिः । ८ अ. प. ०क्ष्यते । ५ प. नो मु० । .. For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy