SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । ___ अथ मालादीपकमाहतन्मालादीपकं ज्ञेयमुत्तरोत्तरसम्पदे । पूर्व पूर्व भवेद् यत्र यत्र तव्यत्ययोऽपि वा ॥६५॥ यत्र यस्मिन् पूर्व पूर्व वाच्यमुत्तरोत्तरस वाच्यस्प सम्पदे विभूतये भवति, तदेकं मालादीपकम् । यत्र वा तव्यत्ययोऽप्युत्तरोत्तरं पूर्वस्य पूर्वस्य सम्पदे जायते, तदपि तदेव । तत्राद्यं यथा" सङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद् यत् समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरमला कीर्त्या च सप्ताब्धयः॥ ८८३ ॥" . अत्र कोदण्डादिभिः क्रमेण शरादीनामुत्कर्षः कृतः। समासादनक्रियारूपं च दीपकम् । यथा वा" राका वर्द्धयते विधुं स कुमुदारामेषु लक्ष्मीमियं . भृङ्गालीषु मदोदयं स मधुरोद्गारं तदीयध्वनिमें । सोऽपि त्रीणि जगन्ति जेतुमनसो देवस्य चेतोभुवः . संरम्भं स च मानिनीपरिषदः प्रेमप्रकर्ष प्रिये ॥ ८८४ ॥" अत्र राकाऽऽदिभिः क्रमेण विधुप्रभृतयो वृद्धि नीयन्ते । वर्द्धयन्तीति क्रियारूपं च दीपकम् । द्वितीयं यथा“ स्त्रीवर्ग रूपसर्गस्तमपि तरुणिमा तं च लावण्यलक्ष्मी.. रेतां च प्रौढिमुद्रापरिचरणमदः सङ्गमश्च प्रियस्य । तं च प्रेमोत्तरङ्गं तदिदमपि मिथो दैत्तगण्ड्रपशुण्डा तां च ज्योत्स्ना यदीन्दोस्तिलकयति ततो मन्मथैकातपत्रम् ॥८८५॥" १५ व. ०रमुत्त० । २ अ. ०पं दी० । ३ प ०ध्वनिः । ४ प. दंतग० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy