SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०६ अलङ्कारमहोदधौ " जितेन्द्रियत्वं विनयस्य साधनं गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ॥ ८७९ ॥" अत्र जितेन्द्रियत्वादीनां विनयादीन् प्रति हेतुत्वादेव चारुत्वप्रतीतिः। अति(थ) सारमाह सारः प्रकर्षस्तूत्तरोत्तरम् ॥ ६३ ॥ पूर्वपूर्वापेक्षया उत्तरोत्तरस्य यः पुनः प्रकर्षः स सारनामाऽलङ्कारः । यथा" राज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम् । सौधे तन्पं तल्पे वराङ्गनाऽनङ्गसर्वस्वम् ॥ ८८० ॥” ॥ ६३ ॥ अर्थकावलीमाह-- परं परं यथापूर्व स्थाप्यतेऽपोह्यतेऽथवा । विशेषणतया यस्यामाहुरेकावलीति ताम् ॥ ६४ ॥ यस्यां यत्र पूर्व पूर्व प्रति क्रमेण परं परं विशेषणतया व्यवच्छेदकत्वेन स्थाप्यतेऽपोह्यते निषिध्यते वा तामेकावलीति नाम्नाऽलङ्कतिमाहुः कथयन्ति । तत्र स्थापनं यथा"पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गया। रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥ ८८१॥" अत्र पुराणां वराङ्गनास्तत्प्रभृतीनां च रूपादीनि विशेषणानि स्थापितानि। अपोहनं यथा" न तजलं यन्न सुचारुपङ्कजं न पङ्कजं तद् यदलीनषट्पदम् । न षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्त्र जहार यन्मनः।।८८२॥" अत्र जलस्यासुचारुपङ्कजत्वं व्यपोहितम् , पङ्कजादीनां चालीनषट्पदत्वा दीनि ॥ ६४ ॥ १ प. कारणं । २ प. व. ०रस्योत्त• । ३ प. परंपरा । ४ ५. ०स्य सु० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy