SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०५ अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । शक्यस्याप्यन्यस्य वस्त्वन्तरस्य तेनैव संरम्भेण कृतिश्च सम्भवति विरोधसङ्गात् । तानि च किञ्चिदै विशेषमाविष्कर्तुं यत् क्वचिद् बैध्यन्ते स विशेषो नामालङ्कारः। तत्राद्यो भेदो यथा-- " दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिव कक्यो न ते वन्याः ॥ ८७६ ॥" अत्र कवीनामाधाराणामभावेऽपि गिरामवस्थानम् । द्वितीयो यथा-- "प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा दिशि दिशि च सा तद्वियोगाकुलस्य । हंहो चेतः ! प्रमितिरपरा नास्ति ते काऽपि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ ८७७॥" अकस्या अपि नायिकाया अनेकेषु प्रासादादिष्ववस्थानम् । तृतीयो यथा" स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजताऽनवाविद्यम् । विधिना ससृजे नवो मनोभूर्भुवि सत्यं सविता बृहस्पतिश्च ॥ ८७८ ॥" अत्र त्वत्सर्गसंरम्भेणैव स्मरादिसर्गः ॥ ६२ ॥ अथ विरोधप्रधानानलङ्कारानभिधाय शृङ्खलाक्रमालारानभिधित्सुः प्रथम कारणमालामाह सा तु कारणमाला स्यादुत्तरोत्तरहेतुता। पूर्वपूर्वस्य यत् सा पुनः कारणेमाला नामालङ्कतिर्यत् पूर्वस्य : पूर्वस्योत्तरमुत्तरं प्रति हेतुता निमित्तत्वम् । यथा १ अ. क्यस्य व० । २ प. कृतः । ३ प. संभवात् । ४ व. ०दशे० । ५ प. विध्यते । ६ अ. अपि ते स्थानेषु अ० । ७ प. न्यहृद्यं । ८ व. अ. प. लंकृतान०। ९ प. ०णनामा मालालं० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy