SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०४ अलङ्कार महोदधौ कार्यान्तरस्य तेनैव कारणेन या सौकर्येण निर्मितिः सुकरं निष्पादनं तस्य कारणस्यात्यन्तं तदानुगुण्यादिति मुख्यकार्यव्या हे तिहेतुत्वाद् व्याघातः । यथा हर्षचरिते राज्यवर्द्धनं प्रति षक्तिषु -- " यदि बाल इति सुतरामपरित्याज्योऽस्मि, रक्षणीय इति भवद्भुजपञ्जरं रक्षास्थानम् । " इत्यादि । अत्र बाल्य - रक्षणीयत्वादिकमवस्थानकारणत्वेन यत् सम्भावितं तत् प्रत्युत सुकरतया प्रस्थानकारणत्वेन समर्थितम् । अथान्योन्यमाह अन्योन्यमुपकारित्वं वस्तुनोः क्रियया मिथः ॥ ६१ ॥ वस्तुनोः पदार्थयोः क्रियया क्रियाद्वारेण मिथः परस्परं यदुपकारित्वमुपकार भावस्तदन्योन्यं नामालङ्कारः । यथा 66 कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तुलस्य । अन्योन्यशोभाजननाद् बभूव साधारणो भूषणभूष्यभावः ॥ ८७४ | " प्रतीयमानोपकारमध्येतद् दृश्यते । यथा ards *" उद्धच्छो पिअइ जलं जह जह विरलंगुली चिरं पहिओ । पावालिआ वि तह तह धारं तणुअं पि तणुएइ ।। ८७५ ।। " अत्र मिथोऽनुरागेऽङ्गुलीविरलीकरणेन धारातनूकरणेन च स्परोपकारः प्रतीयमानः ।। ६१ ।। पर. अथ विशेषमाह अनाधारं यदाधेयमेकं वाऽनेकगोचरम् । विशेषोऽयमशक्यस्य कृतिश्चान्यस्य वस्तुनः ॥ ६२ ॥ प्रसिद्धमाघारं विना न खल्वाधेयं स्थातुमर्हति । न चैकं वस्तु तेनैव स्वरूपेण युगपदनेकेषु विषयेष्ववतिष्ठते । नापि किश्चित् कार्य कुर्वता केनचिद For Private And Personal Use Only * ऊर्ध्वाक्षः पिबति जलं यथा यथा विरलाङ्गुलिश्विरं पथिकः । प्रपापालिकाऽपि तथा तथा धारां तनुकामपि तनयति || १ प ०तिवाद् । २ प. व श्रीह० । ३ प युगलं । ४ प ०पस्कारः ।
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy