SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । ३०३ " भक्तिप्रबविलोकनप्रणयिनी नीलोत्पलस्पर्द्धिनी ध्यानालम्बनतां समाधिनिरतैीते हितप्राप्तये । लावण्यस्य महानिधी रसिकता लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥ ८७२ ॥" अत्रापि विकल्प कश्चिन्मन्यते तदयुक्तम् । यतो नेत्रयोस्तनोश्च न कश्चिद् विरोधः । कथञ्चिद् विरोधो वा यस्यापि क्रियां प्रत्यप्रवृत्तिस्तस्यापि प्रभावक्षति. प्रसङ्गः । वाशब्दस्य तु समुच्चयार्थस्यापि दर्शनात् ।। ५९ ॥ अथ व्याघातमाहसाधितं यद् यथैकेन तथैवान्यस्तदन्यथा । यत् साधयति स ज्ञेयो व्याघातः । यत् कार्यमेकेन केनचिद् यथा येनोपायेन साधितं भवति, तथैव तेनीपायेन कश्चिदन्यस्तत् कार्यमन्यथा साधयति पूर्वरूपविरुद्धेन रूपेण जनयति स पूर्वरूपव्याहतिरूपत्वाद् व्याघातो ज्ञेयः । यथा " दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य यिनीस्ताः स्तुवे चारुलोचनाः ॥ ८७३ ॥" अत्र हरेण ग्रूपोपायेन स्मरो दग्धः, स्त्रियस्तु तेनैव जीवेयन्तीत्यनेनैव दाहरूपकार्यव्याहतेाघातोऽयम् । सोऽपि विरूपाक्षस्येत्यादिशब्दोन्मीलितव्यतिरेकनिमित्तत्वेनात्रोक्तः । अथास्यैव लक्षणान्तरमाह सोऽपरः पुनः ॥ ६॥ मुख्यकार्यविरुद्धस्य या सौकर्येण निर्मितिः। स पुनरपरो व्याघातः केनापि कारणेन समुपक्रान्तं यत् कार्य तद्विरुद्धस्य १ प. क्षिति । २ प. तेनैवोपा० ३ अ. जय० । ४ प. वामलो० । ५ प. व्यत्यनेन । ६ प. सोपरः परः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy