SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ अलङ्कारमहोदधौ अत्र गेह-मन्दिरादयोऽर्था असंहताः । संहतो यथा" मधुरिमरुचिरं वचः खलानाममृतमहो ! प्रथमं पृथु व्यनक्ति । अथ कथयति मोहहेतुरन्तर्गतमिव हालहलं विषं तदेव ।। ८६८ ॥" अत्रामृत-विषयोर्वचसि संहतत्वम् , क्रमात् तु निबन्धः ॥ अनेक आधारोऽसंहतो यथा" न त्वाश्रयस्थितिरियं तव कालकूट ! केनोत्तरोत्तरविशिष्टपदोपदिष्टा ? । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम् ।८६९।" अत्रार्णव-हृदयादयोऽसंहता आधाराः । संहता यथा" श्रोणीबन्धस्त्यजति तनुता सेवते मध्यभागा पद्भ्यां मुक्तास्तरलैंगतयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ ८७० ॥" अत्र श्रोणीबन्धादयस्तनुताद्याधाराः संहताः । अथ विकल्पमाहविकल्पः स्याद् विरुद्धत्वे समानबलशालिनोः ॥ ५९ ॥ एकसम्बन्धित्वेन तुल्यबलशालिनोर्यद् विरुद्धत्वं परस्परव्यापारासहनत्वं फाञ्चित् क्रियां प्रत्येकस्य प्रवृत्तावन्यस्याप्रवृत्तिरित्यर्थस्तस्मिन् सति विकल्पो नामालङ्कारः स्यादौपम्यगर्भत्वाचास्य चारुत्वम् । यथा "नमन्तु शिरांसि धनूंषि वा कर्णपूरीक्रियतामाज्ञा मौर्यो वा ।" अत्र वैरिसम्बन्धिनां शिरसां धनुषां च नमन क्रियां प्रत्येकप्रवृत्तौ तदन्याप्रवृत्तिरिति न्यायप्राप्तो विकल्पो वाशब्दश्चास्य वाचको नमन क्रियाकृतं चात्र सादृश्यम् । एवं कर्णपूरीक्रियन्तामित्यादौ योजनीयम् ।। १ प. ०षययो० । २ प. अर्णः । ३ प. रणग०। ४ प. विरुद्धत्वे विकल्पः रयात् । ५ प.व.०लशोमिनो०। ६ अ. मूव्यों । ७ प. व. प्राप्तौ । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy