SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थालङ्कारवर्णनो नामाष्टमस्तरङ्गः । ३०१ इष्टस्य वाञ्छितस्य कार्यस्य सम्यनिष्पत्तिहेतवे सातिशयनिष्पत्तिनिमित्तं तस्य कार्यस्य या विरुद्धा क्रिया तस्या आरम्भो यस्मिन् भवति तद् विचित्रनामालङ्कारान्तरमीरितं कथितम् । यथा*" घित्तुं मुच्चइ अहरो अन्नत्तो पिक्खिउं व(च)लइ दिट्ठी। घडिउँ विहडंति सुआ रया अ सुरयम्मि वीसामो ॥ ८६५ ॥" अत्र ग्रहणादिकार्यस्य सातिशयनिष्पत्तये मोचनादिक्रियाऽऽरम्भः । यथा वा" उन्मत्यै नमति प्रभुं प्रभुगृहान् द्रष्टुं बहिस्तिष्ठति स्वद्रव्यव्ययमातनोति जडधीरागामिवित्ताशया । प्राणान् प्राणितुमेव मुश्चति रणे क्लिश्नाति भोगेच्छया सर्व तद् विपरीतमेव कुरुते तृष्णान्धदृक् सेवकः ॥ ८६६ ॥" अत्रोन्नत्यादिकार्याणां निष्पत्तये नमत्यादिक्रियाऽऽरम्भः ॥ ५८ ॥ अथ पर्यायमाहपर्यायोऽनेकमेकस्मिन् क्रमात् तद्व्यत्ययोऽपि यत् । यदनेकमाधेयं द्विव्यादिकं क्रमादेकस्मिन्नाधारे भवति स एकः पर्यायः । तदव्यत्ययोऽप्यनेकस्मिन आधार क्रमादेकमाधेयमिति द्वितीयः पर्यायः । क्रमवयाचास्यान्वर्थता । अनेकश्चार्थोऽस्मिन्नसंहतः संहतश्चेति द्विविधः । तत्रासंहत एकस्मिन्नाधारे यथा--- " तद् गेहं नतमित्तिमन्दिरमिदं लब्धावकाशं दिवः सा धेनुजेरती न दन्तिकरिणामेता धनाभा घटाः । स क्षुद्रो मुसलध्वनिः कलमिदं सङ्गीतकं योषिता माश्चर्य दिवसर्द्विजोऽयमियती भूमि परों प्रापितः ॥८६७॥" * गृहीतुं मुच्यतेऽधरोऽन्यतश्चलति प्रेक्षितुं दृष्टिः । घटितुं विघटते भुजौ रदाश्च सुरते विश्रामः ।। १ प. व. घेत्तुं । २ प. द्विवादि० । ३ अ. किरणा० । ४ प. योगिता० । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy