SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०० अलङ्कारमहोदधौ " चित्रं चित्रं बत बत महचित्रमेतद् विचित्रं ___ जातो दैवादुचितरचनासंविधाता विधाता । यनिम्बानां परिणतिफलस्फातिरास्वादनीया यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥ ८६२ ॥" अत्रानमिरूपयोगः। अथाधिकमाहअधिकं नानुरूपत्वमाश्रयायिणोस्तु यत् ॥ ५७ ॥ आश्रयायिणोराधाराधेययोः पुनर्यनानुरूपत्वं क्वचिदाधेयापेक्षया आधारस्याधिक्यम् , कच्चिचाधारापेक्षयाऽऽधेयस्येत्यनुचितत्वं दृश्यते तदपिकं नामालङ्कारः । तत्राधाराधिक्यं यथा" द्यौरत्र कचिदाश्रिता प्रविततं पातालमत्र कचित् काप्यत्रैव धरा धराधरजलाधारावधिर्वतते । स्फीतस्फीतमहो ! नमः कियदिदं यस्येत्थमेवंविधै दूरे पूरणमस्तु शून्यमिति यन्नामापि नास्तं गतम् ।। ८६३ ॥" अत्र छुप्रभृतीनां महतामप्याधेयानामपेक्षया गगनरूपस्याधारस्याधिक्यमुक्तम् । आधेयाधिक्यं यथा" युगान्तकालप्रतिसंहतात्मनो जगन्ति यस्यां सविकाशमासत । तनौ ममुस्तस्य न कैटभद्विपस्तपोधनाम्यागमसम्भवा मुदः ॥८६४॥" अत्र महत्या अपि कैटभारित नोराधाररूपायाः सकाशादाधेयानां मुदा महत्त्वमुपनिबद्धम् ॥ ५७ ॥ अथ विचित्रमाहयस्मिन्निष्टस्य कार्यस्य सम्यनिष्पत्तिहेतवे । तद्विरुद्धक्रियारम्भस्तद् विचित्रमितीरितम् ॥ ५८॥ १ प. ०णतफ० । २ प. ०दका० । ३ प. ०रूपं । ४ अ, मप्या० । ५ व. तु सुहृदाः । For Private And Personal Use Only
SR No.020025
Book TitleAlankar Mahodadhi
Original Sutra AuthorN/A
AuthorNarendraprabhsuri, Lalchandra Bhagwandas Gandhi
PublisherOriental Institute
Publication Year1942
Total Pages482
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy