________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८
अलङ्कारमहोदधौ अत्राप्यस्यामपि विभावनायां कारणामावस्तेषां कारणानां यानि विरुद्धानि प्रतिपक्षभूतानि कारणानि तत्प्रयोगसम्भवः क्वचिद् भवति । यथा
" या कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा__स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ।। ८५५ ॥" . अत्र च विभाक्ना-विशेषोक्त्योरस्फुटत्वं सन्देहसङ्करश्चेत्याचक्षते । तथाहि'या कौमारहरः' इत्याद्यनुत्कण्ठाकारणभणनद्वारेणोत्कण्ठाकारणानां वल्लभसङ्गमाभावादीनाममावो निबद्ध इति विभावना । तथा 'यः कौमारहरः' इत्यादीनां कारणानामनुत्कण्ठारूपस्य कार्यस्योत्कण्ठाख्यविरुद्ध कार्यभणनद्वारेणाभावनि. बन्ध इति विशेषोक्तिरिह च द्वयोक्तिरपि विरुद्ध कार्यकारणोपनिवन्धेन कार्यकारणाभावनिबन्धादस्फुटत्वम् । साधक-बाधकप्रमाणाभावाच्च सन्देहसङ्कर इति॥५५॥
अथ विषममाहकार्यस्याननुरूपत्वमनर्थश्चार्थमिच्छतः ।
यत्र तद् विषमं या च घटनाऽननुरूपयोः॥ ५६ ॥ कारणानुरूपं कार्यमुत्पद्यते इति प्रसिद्धौ यत्र कारणापेक्षया कार्यस्य गुणैः क्रियया वाऽननुरूपत्वमसादृश्यं तदेकं विषमम् । तथा कस्यचिदर्थमिच्छतोऽर्थाय प्रवृत्तस्य न केवलं तस्यार्थस्याप्रतिलम्भा, प्रत्युत कस्याप्यनर्थस्यावाप्तिरिति द्वितीयम् । या च परस्परमननुरूपयोरत्यन्तानुचितयोर्घटनासंयोगस्तत् तृतीयम् ।
तत्राद्ये गुणैरननुरूपत्वं यथा" सद्यः करस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा ।
तमालनीला शरदिन्दुपाण्डे यशस्त्रिलोकाभरणं प्रसूते ॥ ८५६ ॥" अत्र श्यामवर्णात् शुक्लवर्णोत्पत्तिरननुरूपा ।
क्रियया यथा१ अ. स्कंठनो० । २ व. विशेष । ३ व. अत्र । ४ अ, स्यान०। ५ व. पांडुरं ।
For Private And Personal Use Only